पूर्वम्: ६।२।८८
अनन्तरम्: ६।२।९०
 
सूत्रम्
अमहन्नवं नगरेऽनुदीचाम्॥ ६।२।८९
काशिका-वृत्तिः
अमहन्नवं नगरे ऽनुदीचाम् ६।२।८९

नगरशब्दे उत्तरपदे महन्नवशब्दवर्जितं पूर्वपदम् आद्युदात्तं भवति, तच् चेदुदीचां न भवति। सुह्मनगरम्। पुण्ड्रनगरम्। अमहन्नवम् इति किम्? महानगरम्। नवनगरम्। अनुदीचाम् इति किम्? नदीनगरम्। कान्तीनगरम्।
न्यासः
अमहन्नवं नगरेऽनुदीचाम्?। , ६।२।८९

"सुह्रनगरम्()" इत्यादयोऽपि षष्ठीसमासा एव। किमर्थं प्राचामित्येवं नोच्यते, [नोच्येत--मुद्रितः पाठः] लधु हि प्राचामिति वचनमनुदीचामिति वचनात्()? नैवं शक्यम्(); मध्यदेशनगरे विराटनगरमित्यत्र न स्यात्()। पूर्वपदाद्युदात्तत्वे प्राप्ते प्रतिषेधोऽमुच्यते, न समास एव भवति॥