पूर्वम्: ६।२।८७
अनन्तरम्: ६।२।८९
 
सूत्रम्
मालाऽ‌ऽदीनां च॥ ६।२।८८
काशिका-वृत्तिः
मालादीनां च ६।२।८८

प्रस्थे इति वर्तते। प्रस्थे उत्तरपदे मालादीनम् आदिरुदात्तो भवति। मालाप्रस्थः। शालाप्रस्थः। माला। शाला। शोणा। द्राक्षा। क्षौमा। क्षामा। काञ्ची। एक। काम। मालदिः। वृद्धार्थ आरम्भः। एकाशोणाशब्दयोः एङ् प्राचां देशे १।१।७४ इति वृद्धसज्ञा।
न्यासः
मालादीनां च। , ६।२।८८