पूर्वम्: ६।२।६७
अनन्तरम्: ६।२।६९
 
सूत्रम्
पापं च शिल्पिनि॥ ६।२।६८
काशिका-वृत्तिः
पापं च शिल्पिनि ६।२।६८

पापशदः शिल्पिवाचिनि उतरपदे विभाषा आद्युदात्तो भवति। पापनापितः, पापनापितः। पापकुलालः, पापकुलालः। पापाणके कुत्सितैः २।१।५३ इति पापशब्दस्य प्रतिपदोक्तः समानाधिकरणसमासः इति षष्ठीसमसे न भवति, पापस्य नापितः पापनापितः इति।
न्यासः
पापं च शिल्पिनि। , ६।२।६८

पापमिति स्वरूपग्रहणम्()। शिल्पिनीत्यत्रार्थग्रहणम्()। अर्थग्रहणं किमर्थम्(), ग्रामशिल्पिनीत्यत्र शिल्पिग्रहणादर्थग्रहणं प्रसिद्धम्(), अत इहाप्यर्थग्रहणं विज्ञायते? नित्यं समासस्वरे प्राप्ते विकल्पेन पूर्वपदस्याद्युदात्तत्वं विधीयते, तेनमुक्ते समासस्वर एव भवति। अथेह कस्मान्न भवति--पापस्य नापित इति? अत आह--"पापशब्दस्य प्रतिपदोक्तः" इति। "तस्मात्? षष्ठी समासे न भवति" इति। प्रतिपदोक्ते हि समासे सति लक्षण प्रतिपदोक्तपरिभाषया (व्या।प।३) तस्यैव ग्रहणं भविष्यति; नान्यस्य॥