पूर्वम्: ६।२।६६
अनन्तरम्: ६।२।६८
 
सूत्रम्
विभाषाऽध्यक्षे॥ ६।२।६७
काशिका-वृत्तिः
विभाषा अध्यक्षे ६।२।६७

अध्यक्षशब्दे उत्तरपदे विभाषा पूर्वपदम् आद्युदात्तं भवति। गवाद्यक्षः, गवाध्यक्षः। अश्वाध्यक्षः, अश्वाध्यक्षः।
न्यासः
विभाषाऽध्यक्षे। , ६।२।६७

अध्यक्षशब्दोऽपि समासे युक्तवाच्येव, तत्र पूर्वेण नित्यमाद्युदात्तत्वे प्राप्ते विभाषेयमारभ्यते। आद्युदात्तत्वेन मुक्ते समासान्तोदात्तत्वमेव भवति। गवामध्यक्ष इति षष्ठीसमासः॥