पूर्वम्: ६।२।३१
अनन्तरम्: ६।२।३३
 
सूत्रम्
सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात्॥ ६।२।३२
काशिका-वृत्तिः
सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात् ६।२।३२

सप्तम्यन्तं पूर्वपदं सिद्ध शुष्क पक्व बन्ध इत्येतेषु उत्तरपदेषु रकृतिस्वरं भवति सा चेत् सप्तमी कालान् न भवति। सांकश्यसिद्धः, सांकाश्यसिद्धः। काम्पिल्यसिद्धः, काम्पिल्यसिद्धः। सांकाश्यकाम्पिल्यशब्दौ ण्यप्रत्ययान्तौ अन्तोदात्तौ। फिषि तु सांकाश्यकाम्पिल्यनसिक्यदार्वाघाटानाम् अन्तः पूर्वं वा इति पठ्यते, तत्र पक्षे मध्योदात्तावपि भवतः। शुष्क ऊकशुष्कः। निधनशुष्कः। ऊकशब्दो बहुलवचनादवतेः कक्प्रत्ययान्तो ऽन्तोदात्तः। निधनशब्दः निधाञः क्यप्रत्यये मध्योदात्तः। पक्व कुम्भीपक्वः। कलसीपक्वः। भ्राष्ट्रपक्वः। कुम्भीकलसीशब्दौ ङीषन्तावन्तोदात्तौ। भ्राष्ट्रशब्दः ष्ट्रन्प्रत्ययान्तः आद्युदात्तः। बन्ध चक्रबन्धः। चारकबन्धः। चक्रशब्दो ऽन्तोदात्तः। चारकशब्दो ण्वलन्त आद्युदात्तः। अकालातिति किम्? पूर्वाह्णसिद्धः। अपराह्णसिद्धः। सप्तमीस्वरः कृत्स्वरेण बाधितः पुनरयं विधीयते।
न्यासः
सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात्?। , ६।२।३२

"साङ्काश्यसिद्धः" इति। "सिद्धशुष्कपक्वबन्धैश्च" २।१।४० इति समासः। "साङ्काश्यकाम्पिल्यशब्दौण्यप्रत्ययान्तत्वात्()" इति। "वुच्छण्()" ४।२।७९ इत्यादिना सङ्काशादिलक्षणं चातुरार्थिकप्रत्ययं विधाय व्युत्पादितत्वात्()। "ऊकशब्दः" इत्यादि। "कृदाधारार्चिकलिभ्यः कः (द।उ।३।१८) इत्यधिकृत्य "सृदृभूशुषिमुषिभ्य कक्()" [कित्()--द।उंउद्रितः पाठः] (द।उ।उ।१९) इति कक्प्रत्ययः किद्? विधीयमानोऽवतेरपि भवतीति। तनोकशब्दः कक्प्रत्ययान्तः। "ज्वरत्वर" ६।४।२० इत्यादिना वतेरूठ्()। "निधनशब्दो निघाञः क्युप्रत्यये मध्योदात्तः" इति। निधनशब्दोऽयं "कृ()पृ()वृजिमन्दि निधाञः क्युः" (द।उ।५।२६) ["निधाञ्भ्यः" मुद्रितः पाठः--द।उ। सप्तम्येकवचने "इकोऽचि विभक्तौ" ७।१।७३ इति नुमं कृत्वा शब्दरूपापेक्षया नपुंसकलिङ्गं वेदितव्यम्()। क्युरित्येतस्मिन्? शब्दरूपे प्रत्ययसंज्ञकं इत्यर्थः। "कुम्भीकलसीशब्दौ ङीपन्तौ" इति। तेनान्तोदात्ताविति भावः। ङीषन्तता तु "जातेरस्त्रीविषयात्()" ४।१।६३ इत्यादिना विहितेन ङीषा वेदितव्यमा। "भ्राष्ट्रशब्दः ष्ट्रन्प्रत्ययान्तः" इति। "ष्ट्रन्()" (द।उ।८।७९) इति वत्र्तमाने "भ्रस्जिगमिनमिहनिविष्यशां वृद्धिश्च" ["विश्यशां" इति मुद्रितन्यासपाठः]