पूर्वम्: ६।२।३०
अनन्तरम्: ६।२।३२
 
सूत्रम्
दिष्टिवितस्त्योश्च॥ ६।२।३१
काशिका-वृत्तिः
दिष्टिवितस्त्योश् च ६।२।३१

दिष्टि वितस्ति इत्येतयोरुत्तरपदयोः द्विगौ समासे पूर्वपदम् अन्यतरस्यां प्रकृतिस्वरम् भवति। पञ्चदिष्टिः, पञ्चदिष्टिः। पञ्चवितस्तिः, पञ्चवितस्तिः। दिष्टिवितस्ती प्रमाणे, तेन अत्र मात्रचो लुक्।
न्यासः
दिष्टिवितस्त्योश्च। , ६।२।३१

अबह्वर्थोऽयमारम्भः। "पञ्चदिष्टिः" इति। पञ्चारत्निरित्यनेन तुल्यम्()॥