पूर्वम्: ६।२।१८७
अनन्तरम्: ६।२।१८९
 
सूत्रम्
अनोरप्रधानकनीयसी॥ ६।२।१८८
काशिका-वृत्तिः
अनोरप्रधानकनीयसी ६।२।१८९

अनोरुत्तरम् अप्रधानवाचि कनीयः च अन्तोदात्तं भवति। अनुगतो ज्येष्ठम् अनुज्येष्ठः। अनुमध्यमः। पूर्वपदप्रधानः प्रादिसमासो ऽयम्। अनुगतः कनीयाननुकनीयान्। उत्तरपदार्थप्रधानो ऽयम्। प्रधानार्थं च कनीयोग्रहणम्। अप्रधानकनीयसी इति किम्? अनुगतो ज्येष्ठः अनुज्येष्ठः।
न्यासः
अनोरप्रधानकनीयसी। , ६।२।१८८

"अनुज्येष्ठः" इति। "वृद्धस्य च" ५।३।६२ इतीष्ठनि परतो वृद्धस्य ज्ज्यादेशः। जेष्ठशब्दो नित्सवरेणाणाद्युदात्तः। "अनुमध्यमः" इति। "मध्यान्मः" ४।३।८ इति मध्यमः, प्रत्ययस्वरेणान्तोदात्तः। "पूर्वपदार्थप्रधानः प्रादिसमसोऽम्()" इति। अत्र हि योऽसौ ज्येष्ठमनुगतो मध्यमञ्च स प्राधान्येन प्रादिसमासेनोच्यते, ज्येष्ठमध्यमौ तु गुणभावेन। तस्मात्? पूर्वपदार्थप्रधानोऽयम्()। "अनुकनीयान्()" इति। ईयसुनि परतो युवशब्दस्य "युवाल्पयोः कनन्यतरस्याम्()" ५।३।६४ इति कनादेशः। कनीयशब्दो नित्स्वरेणाद्युदात्त-। "अनुगतो ज्येष्ठोऽनुज्येष्ठः" ति। उत्तरपदार्थप्रधानोऽयम्()। तेन प्रधानवाचित्वं ज्येष्ठशब्दस्यास्ति॥