पूर्वम्: ६।२।१८६
अनन्तरम्: ६।२।१८८
 
सूत्रम्
अधेरुपरिस्थम्॥ ६।२।१८७
काशिका-वृत्तिः
अधेरुपरिस्थम् ६।२।१८८

अधेरुत्तरम् उपरिस्थवाचि अन्तोदात्तं भवति। अधिदन्तः। अधिकर्णः। अधिकेशः। अध्यारूढो दन्तः इति प्रादिसमासः। अध्यारूढो वा दन्तः इति समानाधिकरण उत्तरपदलोपी समस्सः। दन्तस्य उपरि यो ऽन्योः दन्तो जायते स उच्यते अधिदन्तः इति। उपरिस्थम् इति किम्? अधिकरणम्।