पूर्वम्: ६।२।१६१
अनन्तरम्: ६।२।१६३
 
सूत्रम्
संख्यायाः स्तनः॥ ६।२।१६२
काशिका-वृत्तिः
सङ्ख्यायाः स्तनः ६।२।१६३

सङ्ख्यायाः परः स्तनशब्दो बहुव्रीहौ समासे ऽन्तोदात्तो भवति। द्विस्तना। त्रिस्तना। चतुःस्तना। सङ्ख्यायाः इति किम्? दर्शनीयस्तना। स्तनः इति किम्? द्विशिराः।
न्यासः
संख्यायाः स्तनः। , ६।२।१६२

"द्विस्तना, त्रिसतना" इति। द्वित्रिशब्दौ प्रातिपदिकस्वरेणान्तोदात्तौ। "स्तनगदी देवशब्दे" (धा।पा।१८५९,१८६०) चुरादिरदन्तः, तस्माद्घञ्(), तेन स्तनशब्द आद्युदात्तः। "चतुःस्तना" इति। "चरेरुरन्()" (द।उ।८।७८) इत्युरन्प्रतययान्तत्वाच्चतुःशब्द आद्युदात्तः। दर्शनीयशब्दोऽनीयर्()प्रत्ययान्तः "उपीत्तमं रिति" ६।१।२११ इति मध्योदात्तः। "द्विशिराः" इति। शिरःशब्दः "नब्विषयस्य" (फि।सू।२।२६) इत्याद्युदात्तः॥