पूर्वम्: ६।२।१५७
अनन्तरम्: ६।२।१५९
 
सूत्रम्
संज्ञायाम्॥ ६।२।१५८
काशिका-वृत्तिः
संज्ञायाम् ६।२।१५९

अक्रोशे गम्यमाने नञः परम् उत्तरपदं संज्ञायां वर्तमानम् अन्तोदात्तं भवति। अदेवदत्तः। अयज्ञदत्तः। अविष्णुमित्रः।
न्यासः
संज्ञायाम्?। , ६।२।१५८

"अदेवदत्तोऽपज्ञदत्तः" इति। देवदत्तयज्ञदत्तशब्दावन्तोदात्तौ। प्रातिपदिकस्वरेण। यो देवदत्तः सन्? तत्? कार्य न करोति स एवमाक्रुश्यते। एवं "अविष्णुमित्त्रः" इत्यत्रापि वेदितव्यम्()॥