पूर्वम्: ६।२।१५०
अनन्तरम्: ६।२।१५२
 
सूत्रम्
सप्तम्याः पुण्यम्॥ ६।२।१५१
काशिका-वृत्तिः
सप्तम्याः पुण्यम् ६।२।१५२

सप्तम्यन्तात् परं पुण्यम् इत्येतदुत्तरपदम् अन्तोदात्तं भवति। अध्ययने पुण्यम् अध्ययनपुण्य। वेदे पुण्य वेदपुण्यम्। सप्तमी इति योगविभागात् समासः। तत्पुरुषे तुल्यार्थ इति पूर्वपदकृतिस्वरत्वं प्राप्तम् इत्यन्तोदात्तत्वं विधीयते। उणादीनां तु व्युत्पत्तिपक्षे कृत्स्वरेण आद्युदात्तः पुण्यशब्दः स्यातिति। सप्तम्याः इति किम्? वेदेन पुण्यम् वेदपुन्यम्।
न्यासः
सप्तभ्याः पुण्यम्?। , ६।२।१५१

"अध्यनपुण्यम्()" इत्यादि। अध्ययनशब्दो ल्युडन्तः कृत्स्वरेण मध्योदात्तः। पुण्यम्? "नब्विषयस्य" (फि।सू।२।२६) इत्याद्युदात्तम्()। विद्यतेऽनेऽनेति वेदः, घञ्()। तेन वेदशब्दश्चाद्युदात्तः। "तत्पुरुषे तुल्यार्थ" इत्यादि। एतत्? "उणादयोऽव्युत्पन्नानि प्रातिपदिकानि" (है।प।पा।१०३) इत्येवं पक्षमाश्रित्योक्तम्()। इदानीं व्युत्पत्तिलक्षणमाश्रित्याह--"उणादीनां तु" इत्यादि। व्युत्पत्तिपक्षे हि पुण्यशब्दः "पुञो यण्णुग्? ह्यस्वश्च" (पं।उ।५।१५) इति यत्प्रत्ययान्तो व्युत्पाद्यते। तत्र यदीद नारभ्येत तदा "गतिकारक" ६।२।१३८ इति कृत्स्वरेणाद्युदात्तोऽध्ययनमित्यादौ पुण्यशब्दस्य स्यात्()। तस्मात्? तदपदादोऽयमन्तोदात्तविषिरित्यभिप्रायः। "वेदेन पुण्यं वेदपुण्यम्()" इति। व्युत्पत्तिपक्षे "तृतीया" (२।१।३०) इति योगविभागात्? समासः। पूर्वपदपरकृतिस्वरत्वञ्च। अव्युत्पत्तिपक्षे "कर्त्तृकरणे कृता" २।१।३१ इति समासः, कृत्स्वरेण पुण्यशब्दस्याद्युदात्तत्वं च॥