पूर्वम्: ६।२।१२९
अनन्तरम्: ६।२।१३१
 
सूत्रम्
वर्ग्यादयश्च॥ ६।२।१३०
काशिका-वृत्तिः
वर्ग्याऽदयश् च ६।२।१३१

वग्य इत्येवम् आदीनि उत्तरपदानि अकर्मधारये तत्पुरुषे समासे आद्युदत्तानि भवन्ति। वासुदेववर्ग्यः। वासुदेवपक्ष्यः। अर्जुनवर्ग्यः। अर्नपक्ष्यः। अकर्मधारये इत्येव, परमवर्ग्यः। वर्ग्यादयः प्रातिपदिकेसु न पठ्यन्ते। दिगादिषु तु वर्ग पूग गण पक्ष इत्येवम् आदयो ये पठिताः, ते एव यत्प्रत्ययान्ता वर्ग्यादयः इह प्रतिपत्तव्या।
न्यासः
वग्र्यादयश्च। , ६।२।१३०

वग्र्यादयो दिगादियदन्ताः। तेषु ये द्व्यचस्ते "यतोऽनावः" ६।१।२०७ इत्याद्युदात्ताः। परिशिष्टास्तु "तित्? स्वरितम्()" ६।१।१७९ इत्यन्तस्वरिताः। वसुदेवस्यापत्यम्? "ऋष्यन्धक" ४।१।११४ इत्यादिनाण्(), तेन वासुदेवशब्दोऽन्तोदात्तः। "अरज अर्जने" (धा।पा।२२४) इत्यस्माच्चुरादिणिजन्तात्? "अजेर्णिलुक्? च" (द।उ।५।५७) इत्युनण्प्रत्ययः। तेनार्जुनो मध्योदात्तः। "इत्येवमादयः" इति। आदिशब्देन पक्षशब्दात्? परे ये पठ()न्ते तेषां ग्रहणम्()॥