पूर्वम्: ६।२।११२
अनन्तरम्: ६।२।११४
 
सूत्रम्
कण्ठपृष्ठग्रीवाजंघं च॥ ६।२।११३
काशिका-वृत्तिः
कण्ठपृष्थग्रीवाजङ्घं च ६।२।११४

कण्ठ पृष्ठ ग्रीवा जङ्घा इत्येतानि उत्तरपदानि बहुव्रीहौ समासे संज्ञौपम्ययोराद्युदात्तानि भवन्ति। कण्ठः संज्ञायाम् शितिकण्ठः। नीलकण्ठः। औपम्ये खरकण्ठः। उष्ट्रकण्ठः। पृष्ठः संज्ञायाम् काण्डपृष्ठः। नाकपृष्ठः। औपम्ये गोपृष्ठः। अजपृष्ठः। ग्रीवा संज्ञायाम् सुग्रीवः। नीलग्रीवः। दशग्रीवः। औपम्ये गोग्रीवः। अश्वग्रीवः। जङ्घा संज्ञायाम् नाडीजङ्घः। तालजङ्घः। औपम्ये गोजङ्घः। अश्वजङ्घः। एणीजङ्घः।
न्यासः
कण्ठपृष्ठग्रीवाजङ्घं च। , ६।२।११३

"कणेष्ठः" (पं।उ।१।१०५) इति ठप्रत्ययान्तत्वात्? कण्ठशब्दोऽन्तोदात्तः। "डित्यपृष्ठगूथयूथप्रोथाः" (द।उ।६।३७) [तिथ--द।उ; पं।उ।] इति पृष्ठशब्दोऽन्तोदात्तो निपात्यते। "इण्शीभ्यां वन्()" (द।उ।८।१२६) इत्यतो वन्प्रत्ययेऽनुवर्तमाने "शेवयह्वजिह्वाग्रीवाप्वमावा:" (द।उ।८।१२८) इति ग्रीवाशब्दोऽन्तोदात्तो निपात्यते। अत्यन्तं हनित गच्छतीति हन्तेर्यङ्(), द्विर्वचनम्(), नुगतोऽनुनासिकान्तस्य" ७।४।८५ इति नुक्(), "अभ्यासाच्च" ७।३।५५ इति कुत्वम्(), जङ्घन्य इति स्थिते पचाद्यच्? "यङोऽचि च" २।४।७४ इति यङो लुक्(); टाप्(), चित्स्वरेण जङ्घाशब्दोऽन्तोदात्तः। अथ वा--"हन्तेरच्? जङ्घ च" २।४।७४ इति यङो लुक्(); टाप्(), चित्स्वरेण जङ्घाशब्दोऽन्तोदात्तः। अथ वा--"हन्तेरच्? जङ्घ च" (पं।उ।५।३१) ["अच्? तस्य जङ्घ च--पं।उ।] इति हन्तेरच्प्रत्ययो जङ्घ इत्ययमादेश इत्येवं वा जङ्घशब्दो व्युत्पाद्यते। एषां कण्ठादीनां समाहारे द्वन्द्वः। "शितिकण्ठः" इति। "सर्वधातुभ्य इन्()" (पं।उ।४।११७) इति वर्तमानं "क्रमितमिशाडिस्तम्भामत इच्च" (पं।उ।४।१२१) [शति--पं।उ।] इति शितिशब्द आद्युदात्तः। "नीलकण्ठः" इति। "नील वर्णे" (धा।पा।५२२), ["नील वर्णे--धा।प।] अस्मात्? घञ्(), तेन नीलशब्दोऽप्याद्युदात्तः। "खरकण्ठः" इति। खरस्येव कण्ठोऽस्येति विग्रहः। खमस्यास्तीति "रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानात्? (वा।५७७) रप्रत्ययः, तेन खरोऽन्तोदात्तः। "उष्ट्रकण्ठः" इति। उष्ट्रस्येव कण्ठोऽस्येति "ष्ट्रन्()" (द।उ।८।७९) इति वर्तमाने "उषखनिब्यां कित्()" (द।उ।८।८२) इति "उष दाहे" (धा।पा।६९६) इत्यस्मात्? ष्ट्रन्(), किच्च। तेनोष्ट्रशब्द आद्युदात्तः। "काण्डपृष्ठः" इति। काण्डं पृष्ठमस्येति काण्डशब्दः "नब्विषयस्यानिसन्तस्य" (फि।सू।२।२६) इत्युदात्तः। "नाकपृष्ठम्()" इति। नास्याकमस्तीति "न भ्राट्()" ६।३।७४ इत्यादिना प्रकृतिभावान्नलोपाभावः। "नञ्सुभ्याम्()" ६।२।१७१ इत्युत्तरपदान्तोदात्तविधानान्नाकशब्दोऽन्तोदात्तः "गोपृष्ठम्()" इ। गोरिव पृष्ठमस्येति। गोशब्द उक्तस्वरः। "अजपृष्ठम्()" इति। अजस्येव पृष्ठमस्येति "अज गतिक्षेपणयोः" (धा।पा।२३०) अस्मात्? पचाद्यच्()। अजादिष्वजाशब्दस्य पाठाद्वीभावो न भवति। चित्स्वरेणाजशब्दोऽन्तोदात्तः। "सुगरीवः" इति। शोभना ग्रीवाऽस्येति "निपाता आद्युदात्ताः" (फि।सू।४।८०) इति सुशब्द आद्युदात्तः। "नीलग्रीवः" इति। नीला ग्रीवाऽस्येति "नील वर्णे" (धा।पा।५२२) ["नील वर्णे--धा।प।] अस्मात्? घञ्()। तेन नीलशब्द आद्युदात्तः। "दशग्रीवः" इति। दश ग्रीवा अस्येति दशशब्दः "न्रः संख्यायाः" (फि।सू२।२८) इत्याद्युदात्तः। "अ()आग्रीवः" इति। अ()आस्येव ग्रीवाऽस्येति। गोशब्दोऽ()आशब्दश्चोक्तस्वरः। "नारीजङ्घः" इति। नारी जङ्घा यस्येति। शङ्र्गरवादिषु "नृनरयोश्च" (ग।सू।५७) इति पठयन्ते, तेनाद्युदात्तः। "तालजङ्घः" इति। तालो जङ्घा यस्येति "तल प्रतिष्ठाकरणे (धा।पा।१५९८) [प्रतिष्ठायाम्()--धा।पा।] चुरादिः, तस्मात्? वचाद्यच्()। तेन तालशब्दोऽन्तोदात्तः। "गोजङ्घः" इति। एण्या इव जङ्घा यस्येति। एणीशब्दः "जातेरस्त्रीविषयात्()" ४।१।६३ इति ङीषन्तः। तेनान्तोदात्तः॥