पूर्वम्: ६।२।१११
अनन्तरम्: ६।२।११३
 
सूत्रम्
संज्ञौपम्ययोश्च॥ ६।२।११२
काशिका-वृत्तिः
संज्ञाऽउपम्ययोश् च ६।२।११३

संज्ञायाम् औपम्ये च यो बहुव्रीहिर् वर्तते तत्र कर्णशब्द उत्तरपदम् आद्युदात्तं भवति। संज्ञायाम् कुञ्चिकर्णः। मणिकर्णः। औपम्ये गोकर्णः। खरकर्णः।
न्यासः
संज्ञौपम्ययोश्च। , ६।२।११२

"कुञ्चि कर्णः, मणिकर्णः" इति। "कुचि शब्दे तारे" (धा।पा।१८४) [कुच--धा।पा।] "अण रण वण भण मण" (धा।पा।४४४।४४८) इति मणिर्भ्वादौ पठ()ते आभ्याम्? "सर्वधातुभ्य इन्()" (पं।उ।४।११७) "इगुपधात्? कित्()" (पंउ।४।११९) इतीन्प्रत्ययः, किच्च। तेन कुञ्चि। तेन कुञ्चिमणिशब्दावाद्युदात्तौ। "गोकर्णः" इति। गौरिव कर्णोऽस्येति विग्रहः। गोशब्द उक्तस्वरः। "खरकर्णः" इति। खरस्येत्यादि विग्रहः। खमस्यास्तीति "रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम्? (वा।५७७) इति रप्रत्ययः, तेन खरशब्दोऽन्तोदात्तः॥