पूर्वम्: ६।१।५०
अनन्तरम्: ६।१।५२
 
सूत्रम्
खिदेश्छन्दसि॥ ६।१।५१
काशिका-वृत्तिः
खिदेश् छन्दसि ६।१।५२

विभाषा इति वर्तते। खिद दैन्ये इत्यस्य धातोः एचः स्थाने छन्दसि विषये विभाषा आकारः आदेशो भवति। चित्तं चिखाद। चित्तं चिखेद। छन्दसि इति किम्? चित्तं खेदयति।
न्यासः
खिदेश्छन्दसि। , ६।१।५१

"चिखाद" इति। "पुगन्तलघूपधस्य" ७।३।८६ इति गुणे कृत आकारः। यदि खादिरपि खिदेरर्थे वत्र्तते, ततोऽयं योगः शक्योऽकर्त्तुम्(); खादेस्तु--चखादेति भविष्यति, खिदेस्तु--चिखेदेति॥