पूर्वम्: ६।१।२१४
अनन्तरम्: ६।१।२१६
 
सूत्रम्
ईवत्याः॥ ६।१।२१५
काशिका-वृत्तिः
ईवत्याः ६।१।२२१

ईवतीशब्दान्तस्य अन्त उदातो भवति स्त्रियां संज्ञायां विषये। अहीवती। कृषीवती। मुनीवती।
न्यासः
ईवत्याः। , ६।१।२१५

अयमपि पित्त्वानुदात्तस्यैवापवादः "अहीवती" इत्यादि। "शरादीनाञ्च" ६।३।११९ इति दीर्घः, "संज्ञायाम्()" ८।२।११ इति च वत्वम्()॥