पूर्वम्: ६।१।२०९
अनन्तरम्: ६।१।२११
 
सूत्रम्
त्यागरागहासकुहश्वठक्रथानाम्॥ ६।१।२१०
काशिका-वृत्तिः
त्यागरागहासकुहश्वठक्रथानाम् ६।१।२१६

त्याग राग हास कुह श्वठ क्रथ इत्येतेषां विभाषा आदिरुदात्तो भवति। त्यागः तयागः। रागः, रागः। हासः, हासः। एते घञन्ताः, तेषां पक्षे कर्षात्वतो घञो ऽन्त उदात्तः ६।१।१५३ इत्युदात्तत्वम् एव भवति। कुहः, कुहः। श्वठः, श्वठः। क्रथः, क्रथः। एते पचाद् यजन्ताः।
न्यासः
त्यागरागहासकुह�आठक्रथानाम्?। , ६।१।२१०

"कुह विस्मापने", (धा।पा।१९०१) "शठ ()आठ सम्यगवभाषणे" (धा।पा।१८५४,१८५५)--एतौ चौरादिकौ। "श्रथ श्लथ क्रथ वलथ हिंसार्थाः" (धा।पा७९९,८०१,८०२)॥