पूर्वम्: ५।४।६६
अनन्तरम्: ५।४।६८
 
सूत्रम्
मद्रात् परिवापणे॥ ५।४।६७
काशिका-वृत्तिः
मद्रात् परिवापणे ५।४।६७

कृञः इत्येव। मद्रशब्दात् परिवापणे डाच् प्रत्ययो भवति कृञो योगे। परिवापणं मुण्डनम्। मद्रशब्दो मङ्गलार्थः। मङ्गलं मण्डनं करोति मद्राकरोति। भद्राच् च इति वक्तव्यम्। भद्राकरोति नापितः कुमारम्। परिवापणे इति किम्? भद्रं करोति।
न्यासः
मद्रात्परिवापणे। , ५।४।६७

"मद्राकरोति" इति। मङ्गलपूर्वं मुण्डनं करोतीत्यर्थः। "भद्राच्चेति वक्तव्यम्()" इति। भद्रशब्दाच्च डाज्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--"समयाच्च यापनायाम्()" ५।४।६० इत्यतश्चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः, तेन भद्रादपि भविष्यतीति॥
बाल-मनोरमा
मद्रात्परिवापणे ११८३, ५।४।६७

मद्रात्परिवापणे। "डा"जिचि शेषः। मङ्गलार्थ इति। मङ्गलपर्याय इत्यर्थः। परिवापणंमुण्डनमिति। "केशान्वपते" इत्यादौ तथा दर्शनादिति भावः। माङ्गल्यमुण्डनेनेति। चौलेनेत्यर्थः। मद्रं करोप्ति भद्रं करोतीति। क्षेमं करोतीत्यर्थः। अत्र परिवापणाऽप्रतीतेर्न डाजिति भावः।

**** इति बालमनोरमायाम् तद्धितप्रक्रिया। ****

अथ तद्धितेषु रक्ताद्यर्थकाः।

-------------------

तत्त्व-बोधिनी
मद्रात्परिवापणे ३३०, ५।४।६७

परिवापणमिति। कर्मव्यापारमात्रवाचिनो वपेर्हेतुमण्णिचि ल्युडिति हरदत्त्#H। कर्मव्यापारः---फलं, तस्य कर्मनिष्ठत्वात्। तथा च फलमात्रवाचिन इत्यर्थः फलित इत्याहुः। माङ्गल्यमुण्डनेनेति। चौलदीक्षादौ।

भद्राच्चेति वक्तव्यम्। भद्राच्चेति। भद्रादित्यर्थग्रहणमिति व्याख्याने तु मङ्गलादिभ्योऽपि स्यादिति बोध्यम्।

इति तत्वबोधिन्यां तद्धितप्रक्रिया।

अथ तनादयः।