पूर्वम्: ५।४।३
अनन्तरम्: ५।४।५
 
सूत्रम्
अनत्यन्तगतौ क्तात्॥ ५।४।४
काशिका-वृत्तिः
अनत्यन्तगतौ क्तात् ५।४।४

अत्यन्तगतिः अशेषसम्बन्धः, तदभावो ऽन्त्यन्तगतिः। अनत्यन्तगतौ गम्यमानायां क्तान्तात् कन्प्रत्ययो भवति। भिन्नकः। छन्नकः। अनत्यन्तगतौ इति किम्? भिन्नम्। छिन्नम्।
न्यासः
अनत्यन्तगतौ क्तात्?। , ५।४।४

"अशेषसम्बन्धः" इति। अशेषस्य स्वेन सम्बन्धिना भेदनादीनां व्याप्तिरित्यर्थः। "भिन्नकम्()" इति। न तु यस्याशेषस्य भेदेन सम्बन्धः, अपि त्वेकदेशस्य तद्भिन्नकमित्युच्यते। भिन्नमित्यत्राशेषसम्बन्ध एव गम्यते। यद्यशेषं भिदिक्रियाव्याप्तं घटादि तद्भिन्नमित्यभिधीयते॥
बाल-मनोरमा
अनत्यन्तगतौ क्तात् , ५।४।४

अनत्यन्तगतौ क्तात्। अत्यन्तगतिरशेषावयवसम्बन्धः, तदभावः=अनत्यन्तगतिः, तस्यां गम्यमानायां क्तान्तात्कन्नित्यर्थः। छिन्नकमिति। किञ्चिदवयवावच्छेदेन छिन्नमित्यर्थः।

तत्त्व-बोधिनी
अनत्यन्तगतौ क्तात् १५४५, ५।४।४

छिन्नकमिति। ईषच्छिन्नमित्यर्थः। क्तप्रकृतिवाच्यया क्रियया कप्रत्ययवाच्यस्य साधनस्य व्याप्तिरत्यन्तगतिः। सेह नास्ति।