पूर्वम्: ५।४।२
अनन्तरम्: ५।४।४
 
सूत्रम्
स्थूलादिभ्यः प्रकारवचने कन्॥ ५।४।३
काशिका-वृत्तिः
स्थूलादिभ्यः प्रकारवचने कन् ५।४।३

स्थूलादिभ्यः प्रकारवचने द्योत्ये कन्प्रत्ययो भवति। जातीयरः अपवादः। प्रकारो विशेषः। स्थूलप्रकारः स्थूलकः। अणुकः। माषकः। कन्प्रकरणे चञ्चद्बृहतोरुपसङ्ख्यानम्। चञ्चत्प्रकारः चञ्चत्कः। बृहत्कः। चञ्चद्बृहयोः इति केचित् पठन्ति। तेषां चञ्चकः, बृहकः इति उदाहरणं द्रष्टव्यम्। स्थूल। अणु। माष। इषु। कृष्ण तिलेषु। यव व्रीहिषु। पाद्यकालावदाताः सुरायाम्। गोमूत्र आच्छादने। सुराया अहौ। जीर्ण शालिषु। पत्रमूले समस्तव्यस्ते। कुमारीपुत्र। कुमार। श्वशुर। मणि। इति स्थूलादिः।
न्यासः
स्थूलादिभ्यः प्रकारवचने कन्?। , ५।४।३

"जातयरोऽपवादः" इति। एतेन यथा प्रकारवचने विधीयमानो जातीयर्? प्रकारवति न प्रकारमात्रे, तथायमपीति दर्शयति; अन्यथा हि जातीयरोयं विषयभेदादपवादो नोपपद्यते, अथ किमर्थ "प्रकारवचने जातीयर्()" (५।३।६९) इत्यस्यैवानन्तरं स्थूलादिभ्यः कन्? न विधीयते? किं कृतं भवति? कन्? प्रकारवचनं न वक्तव्यं भवति? नैवं शक्यम्(); स्थूलादीनां हि प्रकारस्याज्ञातादीनां च युगपद्विवक्षायां परत्वात्? के कृते कन्न स्यात्(); शब्दान्तरत्वात्() अथापि स्यात्()? एवमपि स्थूलक इत्याद्युदात्तत्वं स्यात्(), इह तु कनो विधाने परत्वात्? परत्वात्? कनि कृति ततः क इत्यन्तोदात्तत्वं सिद्धं भवति। "चञ्चद्बृहतोः" इत्यादि। स्थालादिषु चञ्चद्बृहतोरपाठात्? तन्न प्राप्नोति। तस्मादुपसंख्यानं प्रतिपादनं कत्र्तव्यम्()। तत्रेदं प्रतिपादनम्()--पूर्वसूत्रादिह चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः। तेन चञ्चद्बृहतोरपि भविष्यतीति। "स्थालाणुमाषेषु" इति। केचिदेताश्चतरुआः प्रकृतस्य इति वर्णयन्ति। स्थूलकः अणुकः। माषकः। इषुकः। अपरे तु स्थूलाणुशब्दौ प्रकृती, माषेष्वित्ययं तपाधिनिर्देश इत्याहः। अन्ये त्वानन्तय्र्यादणुशपब्दस्यैव माषग्रहणं विशेषणमाचक्षते। आद्यमेव दर्शनं न्याय्यम्(); तथा हि--स्थूलकादयः तद्विशेषमम्()। कृष्णकास्तिलाः। "यव व्रीहिषु" इति। यव इति प्रकृतिः, व्रीहिष्विति तद्विशेषणम्()। यवको व्रीहिः। "पाद्यकालवदाताः सुरायाम्()" इति। अपरे पुनरानन्तय्र्यदवदातशब्दस्य सुराग्रहणं विशेषणं पाद्यकालयोर्न विशेषणत्वं भवतीत्याहुः। "गोमूत्रादाच्छादने" ["गोमूत्र आच्छादने"-काशिका] इति। गोमूत्रशब्दः प्रकृतिः, आच्छादने इति तद्विशेषणम्()। गोमूत्रप्रकारकमाच्छादनं गोमूत्रकम्()। "सुराहौ" ["सुराया अहौ"-काशिका] इति। सुरेति प्रकृतिः अहाविति विशेषणम्()। सुरावर्णोऽहिरिति सुरकः। "जीर्णशालिषु" इति। पत्रमूले इत्येते शब्दरूपे समस्तव्यस्ते प्रत्ययमुत्पादयतः--पत्रकम्(), मूलकम्()॥
बाल-मनोरमा
स्थूलादिभ्यः प्रकारवचने कन् , ५।४।३

स्थूलादिभ्यः। प्रकारो भेदः सादृश्यं च, व्याख्यानात्, तद्वति वर्तमानाद्यथायोयं कन्नित्यर्थः। जातीयरोऽपवाद इति। एतेन अयमपि तद्वदेव प्रकारवति भवति, नतु प्रकारमात्रे इति सूचितम्।

चञ्चत्क इति। चञ्चधातुश्चलने। अचञ्चन्नपि यश्चञ्चन्निव दृश्यते स चञ्चत्कः। यथा स्पन्दमानस्वच्छजनमध्यवर्ती मणिः। बृहत्क इति। अबृहन्नपि बृहन्निव दृश्यते स बृहत्कः, बृहदाख्यसामविशेषो वा। सुराया अहाविति। गणसूत्रमिदम्।"प्रकारवचने क"न्निति शेषः। सुराया अहावेवेति नियमार्थमिदम्। सुरक इति। "केऽण" इति ह्यस्वः।

तत्त्व-बोधिनी
स्थूलादिभ्यः प्रकारवचने कन् १५४४, ५।४।३

स्थूलादिभ्यः। प्रकारोभेदः सादृश्यं च। उभयत्रापि यथासंभवं कन्। जातीयरोऽपवाद इति। तेनायमपि तद्वदेव प्रकारवति भवति न तु प्रकारमात्रे इत्युक्तं भवति।

चञ्चद्बृहतोरूपसंख्यानम्। चञ्चाद्बृहतोरिति। एंतावपि स्थूलादिष्वेव पठितव्याविति भावः। चञ्चत्क इति। चञ्चतिश्चलनकर्मा। चञ्चत्कः। एवं बृहद्विशेषो बृहत्कः। अचञ्चन्नबृहन्नपि प्रभाविशेषाच्चञ्चन्निव बृहन्निव मणिविशेषो लक्ष्यते स चञ्चत्कः। बृहत्कः। सुरक इति। "केऽणः"इति ह्यस्वः।