पूर्वम्: ५।४।१४७
अनन्तरम्: ५।४।१४९
 
सूत्रम्
उद्विभ्यां काकुदस्य॥ ५।४।१४८
काशिका-वृत्तिः
उद्विभ्यां काकुदस्य ५।४।१४८

उत् वि इत्येताभ्यां परस्य काकुदशब्दस्य लोपो भवति बहुव्रीहौ समासे। उद्गतं काकुदम् अस्य उत्का कुत्। विकाकुत्। तालु काकुदम् उच्यते।
लघु-सिद्धान्त-कौमुदी
उद्विभ्यां काकुदस्य ९७९, ५।४।१४८

लोपः स्यात्। उत्काकुत्। विकाकुत्॥
न्यासः
उद्विभ्यां काकुदस्य। , ५।४।१४८

"उत्काकुत्(), विकाकुत्()" इति। अन्त्यस्य लोपे कृते "वाऽवसाने" ८।४।५५ इति चत्र्वम्()। ननु च "आदेः परस्य" १।१।५३ इत्यादिलोपेन भवितव्यम्(), तत्कथमन्त्यस्य भवति? अन्त्यवचनो ह्रवयववचनोऽपि, स नियतदेशावयवमाचष्ट इत्युक्तम्()। तत्र यद्यादेः स्यात्(), समासान्तता नोपपद्यते॥
बाल-मनोरमा
उद्विभ्यां काकुदस्य ८७६, ५।४।१४८

उद्विभ्यां काकुदस्य। लोप इति। उद्विभ्यां परस्य काकुदस्य लोपः स्याद्बहुव्रीहावित्यर्थः। उत्काकुदिति। उन्नतं काकुदं यस्येति विग्रहः। काकुदशब्दं व्याचष्टे-काकुदं ताल्विति।