पूर्वम्: ५।४।१४६
अनन्तरम्: ५।४।१४८
 
सूत्रम्
त्रिककुत् पर्वते॥ ५।४।१४७
काशिका-वृत्तिः
त्रिककुत् पर्वते ५।४।१४७

त्रिककुदि बहुव्रीहौ ककुदशब्दस्य लोपः समासान्तो निपात्यते पर्वते ऽभिधेये। त्रीणि ककुदान्यस्य त्रिककुत् पर्वतः। ककुदाकारं पर्वतस्य शृङ्गं ककुदम् इत्युच्यते। न च सर्वस्त्रिशिखरः पर्वतः त्रिककुत्। किं तर्हि? संज्ञैषा पर्वतविशेषस्य। पर्वते इति किम्? त्रिककुदो ऽन्यः।
न्यासः
त्रिककुत्पर्वते। , ५।४।१४७

अनवस्थार्थमिदम्()। पर्वतेऽन्यपदार्ते मुख्यं ककुटं न सम्भवति; उच्यते चेदम्()--त्रिककुत्? पर्वत इति। तत्र सामथ्र्यात्ककुदाकारे पर्वतशिखरे सादृश्यात्? ककुदशब्दो वत्र्तते, तस्येदं ग्रहणं ककुदाकाराणि श्रृङ्गाणि तस्य सर्वस्य त्रिककुदभिधानं प्राप्नोति? अत--"न च" इत्यादि। "उच्यते" इति प्रकृतेन सम्बन्धः। "संज्ञैषा" इत्यादि। एतेन यस्यैषा संज्ञा त्रिककुच्छब्देनोच्यत इति तद्दर्शयति। एतच्च निपातनात्? "स्त्रियां संज्ञायाम्()" ५।४।१४३ इत्यतः संज्ञाग्रहणानुवृत्तेर्लभ्यते। ननु चाभिधेयनियमोऽपि तत एव लभ्यत इति पर्वतग्रहणं न कत्र्तव्यम्()? नैतदस्ति; शैलीयमाचार्यस्य यत्? प्रसद्धेष्वपि नित्यरेष्वभिधेयनिमित्तमाचष्टे, यथा--"पुष्यसिद्ध्यौ नक्षत्रे" ३।१।११६ इति,किं पुनर्यत्र प्रसिद्धिर्नास्ति! सा तु लौकिकी॥
बाल-मनोरमा
त्रिककुत्पर्वते ८७५, ५।४।१४७

त्रिककुत्पर्वते। पर्वतविशेषे गम्ये इत्यर्थः। त्रिककुदिति कृताऽकारलोपो निपात्यते। त्रीणि ककुदानि श्रृङ्गाणि यस्येत्यर्थः।