पूर्वम्: ५।४।१४४
अनन्तरम्: ५।४।१४६
 
सूत्रम्
अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च॥ ५।४।१४५
काशिका-वृत्तिः
अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश् च ५।४।१४५

विभाषा इत्येव। अग्रान्तात् शब्दात् शुद्ध शुभ्र वृष वराह इत्येतेभ्यश्च परस्य दन्तशब्दस्य विभाषा दतृ इत्ययम् आदेशो भवति समासान्तो बहुव्रीहौ समासे। कुड्मलाग्रदन्,कुड्मलाग्रदन्तः। शुद्धदन्, शुद्धदन्तः। शुभ्रदन्, शुभ्रदन्तः। वृषदन्, वृषदन्तः। वराहदन्, वराहदन्तः। अनुक्तसमुच्चयार्थः चकारः। अहिदन्, अहिदन्तः। मूषिकदन्, मूषिकदन्तः। गर्दभदन्, गर्दभदन्तः। शिखरदन्, शिखरदन्तः।
न्यासः
अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च। , ५।४।१४५

बाल-मनोरमा
अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ८७३, ५।४।१४५

अग्रान्त। अग्रः=अग्रशब्दोऽन्तेऽवसाने यस्य स अग्रान्त इत्यभिप्रेत्योदाहरति--कुड्मलाग्रदन्निति। कुड्मलानां-मुकुलानाम्--अग्राणि, तानीव दन्ता यस्येति विग्रहः। शुद्धदन्। शुद्धदन्तः। शुभ्रदन्-शुभ्रदन्तः। वृषदन्-वृषदन्तः। वराहदन्-वराहदन्तः।

तत्त्व-बोधिनी
अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ७६०, ५।४।१४५

अग्रान्त। इहाऽनुक्तसमुच्चयार्थश्चकारः, तेन मूषिकदन्निति सि व्द्यतीत्याहुः।