पूर्वम्: ५।४।१४३
अनन्तरम्: ५।४।१४५
 
सूत्रम्
विभाषा श्यावारोकाभ्याम्॥ ५।४।१४४
काशिका-वृत्तिः
विभाषा श्यावारोकाभ्याम् ५।४।१४४

श्याव अरोक इत्येताभ्यां परस्य दन्तशब्दस्य दतृ इत्ययम् आदेशो भवति विभाषा समासान्तो बहुव्रीहौ। श्यावदन्, श्यावदन्तः। अरोकदन्, अरोकदन्तः। अरोको निर्दीप्तिः। संज्ञायाम् इत्येव, श्यवदन्तः। अरोकदन्तः।
न्यासः
विभाषा श्यावारोकाभ्याम्?। , ५।४।१४४

"स्त्रियाम्()" इति निवृत्तम्()। रोकः=रोचनम्(), दीप्तिः। "रुच दीप्तौ" (धा। पा।७४५), भावे घञ्(), "चजोः कुघिण्ण्यतोः" ७।३।५२ इति कुत्वम्()। अविद्यमानो रोकोऽस्येत्यरोकशब्दस्य व्युत्पतिं()त ह्मदि कृत्वा तस्यार्थं दर्शयितुमाह--"अरोको निर्दीप्तिः" इति॥
बाल-मनोरमा
विभाषा श्यावारोकाभ्याम् ८७२, ५।४।१४४

विभाषा श्यावारोकाभ्यां। शेषपूरणेन सूत्रं व्याचष्टे--दन्तस्येति। श्यावदन्निति। श्यावा धूम्रा दन्ताः यस्येति विग्रहः। "श्यावः स्यात्कपिशो धूम्रः" इत्यमरः। अरोकदन्निति। अरोकाः=अदीप्ताः अच्छिद्रा वा दन्ता यस्येति विग्रहः।

तत्त्व-बोधिनी
बिभाषा श्यावारोकाभ्याम् ७५९, ५।४।१४४

श्यावदन्निति। "श्यावः स्यात्कपिशः"इत्यमरः। अरोकदन्निति। अरोकाः=अच्छिद्रा दन्ता यस्य सः।