पूर्वम्: ५।४।११४
अनन्तरम्: ५।४।११६
 
सूत्रम्
द्वित्रिभ्यां ष मूर्ध्नः॥ ५।४।११५
काशिका-वृत्तिः
द्वित्रिभ्यां ष मूर्ध्नः ५।४।११५

द्वित्रिभ्यां परो यो मूर्धन्शब्दः तदन्ताद् बहुव्रीहेः षप्रत्ययः भवति समासान्तः। द्विमूर्धः। त्रिमूर्धः। द्वित्रिभ्याम् इति किम्? उच्चैर् मूर्धा।
लघु-सिद्धान्त-कौमुदी
द्वित्रिभ्यां ष मूर्ध्नः ९७५, ५।४।११५

आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ। द्विमूर्धः। त्रिमूर्धः॥