पूर्वम्: ५।४।११३
अनन्तरम्: ५।४।११५
 
सूत्रम्
अङ्गुलेर्दारुणि॥ ५।४।११४
काशिका-वृत्तिः
अङ्गुलेर् दारुणि ५।४।११४

अङ्गुलिशब्दान्ताद् बहुव्रीहेः षच् प्रत्ययो भवति समासान्तः दारुणि समासार्थे। द्व्यङ्गुलं दारु। त्र्यङ्गुलं दारु। पञ्चाङ्गुलं दारु। अङ्गुलिसदृशावयवं धान्यादीनां विक्षेपणकाष्ठम् उच्यते। यस्य तु द्वे अङ्गुली प्रमाणम् दारुणः तत्र तद्धितार्थ इति समासे इऋते तत्प्रुषस्य अङ्गुलेः इत्यचा भवितव्यम्। दारुणि इति किम्? पञ्चाङ्गुलिर् हस्तः।
न्यासः
बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गत्? षच्?। , ५।४।११४

"अद्रवं मूर्त्तिमत्()" (म। भा। २।२२२ का। ४।१।५५४) इत्यादिना प्रारिभाषिकं यत्? स्वाङ्गं तदिह गृह्रते। "दुःश्लिष्ट विभक्तिनि" इति। दुःखेन कष्टेन श्लिष्टाः सम्बद्धा विभक्तयो येषु तानि दुःश्लिष्टविभक्तीनि। तथा च--प्रत्ययसम्बन्धेन षष्ठ()आ भवितव्यम्(), यथा "तत्पुरुषस्याङ्गुलेः" ५।४।८६ इति। सक्थ्यक्षिप्रगहणेन चेह तदन्ततया बहुव्रीहेर्विशेषयितुमिष्टत्वात्()। बहुव्रीहौ यद्विभक्तिवचनं ततोऽपि तेनैव भवितुं युक्तम्()। इह तु बहुव्रीहौ सप्तम्येकवचनम्()। सकव्यक्षिशब्दाभ्यां तु षष्ठीद्विवचनम्(), सप्तमीद्विवचनं वा। स्वाङ्गग्रहणं सक्थ्यक्ष्णोरिह समानाधिकरणं विशेषणम्(), ततश्च सक्थ्यक्षिशब्दाभ्यां या विभक्तिस्तद्विभतिकं समानाधिकरणविशेषणमुपपद्यते। एवं विधविभक्तिभिः पदैः कश्चिद्()दुःखेन कृच्छ्रेण युक्तो यामाश्रित्य विभक्तिमेवार्थं प्रतिपद्यते। तस्मात्? तानि दुःश्लिष्टविभक्तीनि। किमर्थ पुनस्तानि पदानि कृतानि? वैचित्र्यार्थम्()। "दीर्घसक्थि शकटम्(), स्थूलाक्षिरिक्षुः" इति। अत्र सक्थ्यक्षिशब्दौ स्वाङ्गं न भवतः। शकटस्य कश्चिदवयवस्तथेक्षोश्च तथाऽभिधीयते। न तु तत्र "अद्रवं मूर्त्तिमत्? (म। भा। २।२२२) इत्यादिकं स्वाङ्गलक्षणमस्ति। ननु च टचापि प्रकृतेन सर्वमेतत्? सिध्यति, तत्? किमर्थं षजिति प्रत्ययान्तरमुपात्तम्()? इत्याह--"टचि प्रकृते" इत्यादि। दीर्घसक्थी स्त्री--टचि ङीबनुदात्तः स्यात्(), षचि तु सति "षिद्गौरादिभ्यश्च" ४।१।४१ इति ङीषुदात्तः सिद्धो भवति। ननु च ङीप्यनुदात्()त उदात्तनिवृत्तिस्वरेणोदात्त एव भवति। अतः स्वरार्थमपि नैव प्रत्ययान्तरमुपादेयम्()? इत्याह--"सकथ्ञ्चाक्रान्तात्()" इति। "विभाषोत्पुच्छे" ६।२।१०६ इत्यतो विभाषेत्यनुवत्र्तनमाने "सक्थञ्चाक्रान्तात्()" ६।२।१९७ इति विकल्पेनोत्तरपदस्यान्तोदात्तत्वं विधीयते। यस्मिन्? पक्ष उदात्तं भवति, तत्र ङीपि परतः, "यस्येति च" ६।४।१४८ इत्यकारस्योदात्तस्य लोपे कृते "अनुदात्तस्य च यत्रोदात्तलोपः" ६।१।१५५ इति ङीप्युदात्तत्वेन भवितव्यम्(), अतो नास्ति ङीपि विरोधः। यस्मिन्? पक्ष उदात्तं न सम्भवति तस्मिन्? ङीपि स्त्युदात्तनिवृत्तिस्वरो नास्ति, उदात्तश्चाश्रीयते। ङीषि तु सति सर्वत्रोदात्तः सिद्धो भवति; ङीष्प्रत्ययस्वरेणान्तोदात्तत्वात्()॥
न्यासः
अङ्गुलेर्दारुणि। , ५।४।११४

द्वे अङ्गुली यस्य तत्()। दारुणि समासार्थे मुख्याभिरङ्लीभिः सम्बन्धस्तत्र नोपपद्यते। तस्मात्? सामथ्र्यात्? द्व्यङ्गुलीसदृशेषु दार्ववयवेष्वङ्गुलिशब्दो वत्र्तमानः समास आश्रीयत इति मत्वाऽ‌ऽह--"अङ्गुलिसदृशावयवम्()" इत्यादि। "ननु च द्वे अङ्गुली प्रमाणमस्य दारुण इत्यादौ मुख्याभिरङ्गुलीभिः सम्बन्धः, तत्र मुख्याङ्गुलीभिः सम्बन्ध इति मुख्ये सम्भवति, अतो गौणस्य ग्रहममयुक्तम्()? इत्याह--"यस्य तु" इत्यादि। बहुव्रीहिग्रहणानुवृत्तेरिह बहुव्रीहेः प्रत्ययो विधीयते। द्वे अङ्गुली प्रमाणमस्येत्येकार्थविवक्षायां तद्धितार्थे तत्पुरुषः कत्र्तव्यः। तस्मिस्तु कृते "तत्पुरुस्याङ्गुलेः संख्याव्ययादेः" ५।४।८६ इत्यचा भवितव्यमेव। यश्च गौणोऽङ्गुलिशब्दः स एवं समामथ्र्यादेव योगस्य विषय इत्युक्तं भवति॥
बाल-मनोरमा
अङ्गुलेर्दारुणि ८४४, ५।४।११४

अङ्गुलेर्दारुणि। बहुव्रीहावित्यनुवृत्तस्य पञ्चम्यर्थे सप्तम्यन्तस्य अङ्गुल्या विशेषणात्तदन्तविधिरित्यभिप्रेत्याह--अङ्गुल्यन्तादिति। पञ्चाङ्गुलं दार्विति। षचि "यस्येति चे"तीकारलोपः। ननु दारुणः कथमङ्गुलय इत्यत आह--अङ्गुलिसदृशावयवमिति। अङ्गुलिसदृशा अवयवा यस्येति विग्रहः। धान्येति कुसूलादिस्थितधान्याद्याकर्षकमिति यावत्। उच्यत इति। "लक्षणये"ति शेषः। द्व्यङ्गुलेति। "प्रमाणे द्वयस"जिति विहितस्य मात्रचो "द्विगोर्नित्य"मिति लुक्। अबहुव्रीहित्वादत्र न षजिति भावः। तर्हि "द्व्यङ्गुलि"रिति स्यादित्यत आह--तद्धितार्थे इति। षचि तु ङीष् स्यादिति भावः।

तत्त्व-बोधिनी
अङ्गुलेर्दारुणि ७४०, ५।४।११४

अङ्गुलेति। मात्रचो "द्विगोर्नित्यम्" इति लुक्।

नेतुर्नक्षत्रेऽब्वक्तव्यः। नेतुरिति। नेता--नायकः। नक्षत्रे यो नेतृशब्दस्तदन्ताब्दहुव्रीहेरित्यर्थः। मृगनेत्रा इति। मृगः--मृगशीर्षनक्षत्रम्। चन्द्रो नेता यस्य मृगनक्षत्रस्य "चन्द्रनेता मृग"इत्यत्र तु न भवति, इह हि नेतृशब्दान्तो बहुव्रीहिर्नक्षत्रे वर्तते न तु नेतृशब्द इति।

खुरखराभ्यां वा नस्। खुराखराभ्यामिति। "नासिकायाः"इति वर्तते। केवलादेशवचनं प्रत्ययनिवृत्त्यर्थम्। खुरणा इति। "अत्वसन्तस्ये"ति दीर्घः।