पूर्वम्: ५।३।८९
अनन्तरम्: ५।३।९१
 
सूत्रम्
कासूगोणीभ्यां ष्टरच्॥ ५।३।९०
काशिका-वृत्तिः
कासूगोणीभ्यां ष्टरच् ५।३।९०

ह्रस्वे इत्येव। कासूगोणीशब्दाभ्यां ह्रस्वस्वे द्योत्ये ष्टरच् प्रत्ययो भवति। कस्य अपवादः। षकारो ङीषर्थः। ह्रस्वा कासूः कासूतरी। गोणीतरी। कासूः इति शक्तिः, आयुधविशेसः उच्यते।
न्यासः
कासूगोणीभ्यां ष्टरच्?। , ५।३।९०

बाल-मनोरमा
कासूगोणीभ्यां ष्टरच् , ५।३।९०

कासूगोणीभ्यां ष्टरच्। ह्यस्व इत्येव। कासूतरीति। षित्त्वान्ङीषिति भावः। "कासूर्बुद्धे कुवाच्येऽस्त्रे" इति नानार्थरत्नमालायाम्। एवं गोणीतरीति।