पूर्वम्: ५।३।८८
अनन्तरम्: ५।३।९०
 
सूत्रम्
कुत्वा डुपच्॥ ५।३।८९
काशिका-वृत्तिः
कुत्वा डुपच् ५।३।८९

ह्रस्वे इत्येव। कुतूशब्दाद् ह्रस्वत्वे द्योत्ये दुपच्प्रत्ययो भवति। कस्य अपवादः। ह्रस्वा कुटूः कुतुपम्। चर्मम् अयं स्नेहभाजनम् उच्यते। कुतूः इत्यावपनस्याख्या।
न्यासः
कुत्वा डुपच्?। , ५।३।८९

बाल-मनोरमा
कुत्वा डुपच् , ५।३।८९

कुत्वा डुपच्। कुतुप इति। कुतूशब्दात् डुपचि ङित्त्वाट्टिलोपः। तत्रापि कुटीरादिवत्स्तीर्तवमपहाय पुंस्त्वमेव। तत्राऽमरकोशषमपि प्रमाणयति--कुतूः कृत्तिस्नेहेति।