पूर्वम्: ५।३।५१
अनन्तरम्: ५।३।५३
 
सूत्रम्
एकादाकिनिच्चासहाये॥ ५।३।५२
काशिका-वृत्तिः
एकादाकिनिच् च असहाये ५।३।५२

एकशदाद् सहायवाचिनः स्वार्थे आकिनिच् प्रत्ययो भवति। चकारात् कन्लुकौ च। आकिनिचः कनो वा लुग् विज्ञायते। स च विधानसामर्थ्यात् पक्षे भवति। एकाकी, एककः, एकः। असहायग्रहणं सङ्ख्याशब्दनिरासार्थम्। तदुपादाने हि द्विबह्वोर् न स्यात्, एकाकिनौ, एकाकिनः।
न्यासः
एकादाकिनिच्चासहाये। , ५।३।५२

"आकिनिचः कनो वा लुग्विज्ञायते" इति। प्रत्यासत्तेः। न तु प्रकारणान्तरविहितस्य; विप्रकर्षात्()। "स च" इत्यादि यदि नित्यः स्यात्? तद्विधानमनर्थकं स्यात्()। तस्माद्विधानसामथ्र्यात्? पक्षे भवति। किं पुनः कारणमसहायग्रहणं संख्याशब्दनिरासार्थं क्रियते? इत्याह--"तदुपादाने हि" इत्यादि। असत्यसहायग्रहणे संख्यावाचिनोऽप्येकशब्दस्य ग्रहणं स्यात्()। तस्मिस्तु सति द्विबह्नोर्न स्यात्()। न हि द्वयोर्बहुषु वा चैकत्वसंख्या विद्यते। असहायता तु शतस्यापि भवति; तुल्यजातीयान्यस्याभावात्()--शतमसहायमिति। तेना सहायार्थस्य ग्रहणे द्विबह्वोरपि प्रत्ययः सिध्यति। अथ कस्मादाकिनिज्वधीयते, न अकनिजित्येवोच्येत, अत्रापि सवर्णदीर्घत्वेनेष्टं सिध्यत्येव? न सिध्यति; "अतो गुणे" ६।१।९४ पररूपत्वम्(), यस्येति ६।४।१४८ लोपश्च प्राप्नोति। अकारोच्चारणसामथ्र्यान्न भविष्यति? नैतदस्ति; अस्ति ह्रकारोच्चारणस्य प्रयोजनम्()। किम्()? भसंज्ञायामन्यः पदसंज्ञानिबन्धनोऽवग्रहो मा भूदिति। तस्मादाकिनिजेव विषेयः॥
बाल-मनोरमा
एकादाकिनिच्चाऽसहाये , ५।३।५२

एकादाकिनिच्चा। असहायवाचकादेकशब्दात्स्वार्थे आकिनिच्यप्रत्ययः स्यादित्यर्थः।

तत्त्व-बोधिनी
एकादाकिनिच्चाऽसहाये १४९४, ५।३।५२

एकाधाकिनिच्चा। असहायवाचिन एकशब्दादाकिनिच् स्यात्। कुन्लुकाविति। आकिनिचः कनो वा पक्षे लुक्। तयोरेवानेन सूत्रेण विधानात्। असहायग्रहणं सङ्ख्याशब्दनिरासार्थम्, अन्यथा प्रसद्धत्वात्संख्याप्रकरणाच्च तस्यैव ग्रहणं स्यात्। इष्टापत्तौ तु द्वित्वे बहुत्वे च न स्यादेकाकिनौ एकाकिन इति। न हि द्वयोर्बहुषु वा एकत्वसंख्याऽस्ति। असहायत्वं तु परस्परातिरक्तसहायाऽभावेन द्वयोर्बहूनामपि भवति। इह अकिनिजेवायं वक्तव्यः, सवर्णदजीर्घेण सिद्धमिष्टम्। "यस्येति चे"ति लोपश्चाऽकारोच्चारणसामथ्र्यान्न भवतीत्यादि हरदत्तग्रन्थे स्थितम्।