पूर्वम्: ५।३।५०
अनन्तरम्: ५।३।५२
 
सूत्रम्
मानपश्वङ्गयोः कन्लुकौ च॥ ५।३।५१
काशिका-वृत्तिः
मानपश्वङ्गयोः कन्लुकौ च ५।३।५१

भागे इत्येव। षष्ठाष्टमाभ्यां यथासङ्ख्यं कन्लुकौ च भवतो मानपश्वङ्गयोर् भागयोरभिधेययोः। षष्ठको भागो मानं चेत् तद् भवति। अष्टमो भागः पश्वङ्ग चेत् तद् भवति। कस्य लुक्? ञस्य लुक्। अनो वा। चकाराद् यथाप्राप्तं च। षाष्ठः, षष्ठः। आष्टमः, अष्टमः। मानपश्वङ्गयोः इति किम्? षाष्ठः, षष्ठः। आष्टमः, अष्टमः।
न्यासः
मानप�आङ्गयोः कन्लुकौ च। , ५।३।५१

चकाराद्यथाप्राप्तं चेति॥
बाल-मनोरमा
मानप�आङ्गयोः कन्लुकौ च , ५।३।५१

मानप()आङ्गयोः ञस्य अनो वेति। अष्टकशब्दात्पूर्वसूत्रविहितस्य ञप्रत्ययस्य अन्प्रत्ययस्य च अनेन लुगित्यर्थः। चकाराद्यथाप्राप्तमिति। ञप्रत्ययः, अन्प्रत्ययश्चेत्यर्थः। ननु "समर्थाना"मित्यतो वाग्रहणानुवृत्त्यैव ञाऽनोरभावे। सति प()आङ्गे अष्टमो भाव इत्यस्य सिद्धेरिह लुग्विधानं व्यर्थमित्याशङ्क्याह--महाविभाषयेति। पूर्वत्रेति। "षष्ठाऽष्टमाभ्यां ञ चे"ति सूत्रे इत्यर्थः। एवं षष्ठाष्टमाभ्यां शब्दाभ्यां ञाऽनोरिह नित्यं प्राप्तयोः कदाचिल्लुग्विधिरर्थवानित्यर्थः।