पूर्वम्: ५।३।१७
अनन्तरम्: ५।३।१९
 
सूत्रम्
दानीं च॥ ५।३।१८
काशिका-वृत्तिः
दानीं च ५।३।१८

इदमः सप्तम्यन्तात् काले वर्तमानाद् दानीं प्रत्ययो भवति। अस्मिन् काले इदानीम्।
न्यासः
दानीञ्च। , ५।३।१८

दानीञ्चेति योगविभाग उत्तरार्थः--"तदो दा च" ५।३।१९ इत्यत्र दानीमेव यथा स्यात्(), पूर्वसूत्रविहितः प्रत्ययो मा भूदिति॥
बाल-मनोरमा
दानीं च १९४२, ५।३।१८

दानीं च। इदमः सप्तम्यन्तात्कालवाचिनः स्वार्थे दानीमिति च प्रत्ययः स्यादित्यर्थः। इदानीमिति। इदंशब्दाद्दार्नीप्रत्ययः, इश्।