पूर्वम्: ५।२।८८
अनन्तरम्: ५।२।९०
 
सूत्रम्
अनुपद्यन्वेष्टा॥ ५।२।८९
काशिका-वृत्तिः
अनुपद्यन्वेष्टा ५।२।९०

अनुपदी इति निपात्यते अन्वेष्टा चेत् स भवति। पदस्य पश्चादनुपदम्। अनुपदी गवाम्। अनुपदी उष्ट्राणाम्।
न्यासः
अनुपद्येन्वेष्टा। , ५।२।८९

"अनुपदी" इति। पश्चात्? पदस्यानुपदम्(), पश्चादर्थेऽव्ययीभावः। तस्मादिनिप्रत्ययो निपात्यते॥
बाल-मनोरमा
अनुपद्यन्वेष्टा १८६५, ५।२।८९

अनुपद्यन्वेष्टा। पदस्य पश्चादनुपदम्। पश्चादर्थे अव्ययीभावः। सप्तम्या अम्भावः। अनुपदमित्यस्मादन्वेष्टरि अर्थे इनिप्रत्ययो निपात्यते।

तत्त्व-बोधिनी
अनुपद्यन्वेष्टा १४३५, ५।२।८९

अनुपद्यन्वेष्टा। अन्वेष्टरि इनिः प्रत्ययो निपात्यते। अनुपदमिति। पदस्य पश्चात्। पश्चादर्थेऽव्ययीभावः। अनुपदीगवामिति। पदापेक्षया षष्ठी गोपदात्। पश्चादन्वेषणं गवामेव। तेन हिरण्यादावन्येष्ये न भवतीति हरदत्तः।