पूर्वम्: ५।२।७८
अनन्तरम्: ५।२।८०
 
सूत्रम्
उत्क उन्मनाः॥ ५।२।७९
काशिका-वृत्तिः
उत्क उनमनाः ५।२।८०

उत्कः इति निपात्यते, उन्मनाश्चेद् स भवति। उद्गतं मनो यस्य स उन्मनाः। उच्छब्दात् ससाधनक्रियावचनात् तद्वति कन् प्रत्ययो निपात्यते। उत्को देवदत्तः। उत्कः प्रवासी। उत्सुकः इत्यर्थः।
न्यासः
उत्क उन्मन्गः। , ५।२।७९

"ससाधनक्रियावचनात्()" इति। साधनम्()=मनः; क्रिया=गमनम्(); सह तेन गमनक्रिया। तद्वचनात्? ससाधने गमने वत्र्तमानादित्यर्थः। "तद्वति" इति। तच्छब्देन क्रिया प्रत्यवमृश्यते। ससाधनक्रियावतीत्यर्थः। "उत्सुकः" इति। उत्कष्टित इत्यर्थः॥
बाल-मनोरमा
उत्क उन्मनाः १८५५, ५।२।७९

उत्क उन्मनाः। उद्गतमनस्कवृत्तेरिति। उत्कण्टितवृत्तेरित्यर्थः।