पूर्वम्: ५।२।६१
अनन्तरम्: ५।२।६३
 
सूत्रम्
तत्र कुशलः पथः॥ ५।२।६२
काशिका-वृत्तिः
तत्र कुशलः पथः ५।२।६३

वुनित्येव। तत्र इति सप्तमीसमर्थात् पथिन्शब्दात् कुशलः इत्यस्मिन्नर्थे वुन् प्रत्ययो भवति। पथि कुशलः पथकः।
न्यासः
तत्र कुशलः पथः। , ५।२।६२

"कृतलब्धक्रीतकुशलाः" (४।३।३८) इत्यणि प्राप्ते वुन्? विधीयते॥
बाल-मनोरमा
तत्र कुशलः पथः १८३९, ५।२।६२

तत्र कुशलः पथः। बुन्स्यादिति। सप्तम्यन्तात्पथिन्शब्दात्कुशल इत्यर्थे वुनित्यर्थः। पथक इति। आकादेशे "नस्तद्धिते"इति टिलोपः।