पूर्वम्: ५।२।१३३
अनन्तरम्: ५।२।१३५
 
सूत्रम्
पुष्करादिभ्यो देशे॥ ५।२।१३४
काशिका-वृत्तिः
पुष्कराऽदिभ्यो देशे ५।२।१३५

पुष्कर इत्येवम् आदिभ्यः प्रातिपदिकेभ्य इनिः प्रत्ययो भवति समुदायेन चेद् देशो ऽभिधीयते। पुष्करिणी। पद्मिनी। देशे इति किम्? पुस्करवान् हस्ती। इनिप्रकरणे बलाद् बहूरुपूर्वादुपसङ्ख्यानम्। बाहुवली। ऊरुबली। सर्वादेश्च। सर्वधनी। सर्वबीजी। सर्वकेशी नटः। अर्थाच् च असन्निहिते। अर्थी। असन्निहिते इति किम्? अर्थवान्। तदन्ताच् च इति वक्तव्यम्। धान्यार्थी। हिरण्यार्थी। पुष्कर। पद्म। उत्पल। तमाल। कुमुद। नड। कपित्थ। बिस। मृणाल। कर्दम। शालूक। विगर्ह। करीष। शिरीष। यवास। प्रवास। हिरण्य। पुष्करादिः।
न्यासः
पुष्करादिभ्यो देशे। , ५।२।१३४

इह कस्मान्न भवति--पुष्कराणि पद्मान्यस्मिन्? देशे सन्तीति? इतिकरणानुवृत्तेः। "अर्थाच्चासन्निहिते" इति। असन्निहितग्रहणे तस्य चास्तित्वेन विरोधः। यदि ह्रसन्निहितोऽर्थः, न नाम विद्यते; यदि विद्यते, कथमसन्निहितः? तस्माद्विशेषणोपादानादस्तोत्येतद्विशेषणमुत्सृज्यासन्निधानोपाधिकादर्थात्? प्रत्ययो विधीयते। अभिधानशक्तिस्वाभाव्याच्च। "अर्थी" इति। अभिलाषवानेवोच्यते। न सर्वोऽसन्निहितोऽर्थः प्रत्ययान्तेन तद्विमर्शादसन्निहितवान्(), अतः प्रत्ययो वक्तव्यः? न वक्तव्यः, कथं पुनरनुच्यमानो लभ्यते? "बहुलं छन्दसि" (५।२।१२२) इत्यतो बहुलग्रहणेन यथा "अष्ट्रामेखलाद्वयोभयरजाह्मदयादीनां दीर्घश्च" (बा। ५८६) इत्येवमादिकं कार्यं सम्पाद्यते, तथेदमपि। "तदन्ताच्च" इत्यादि। असन्निहितमित्यनुवत्र्तते, असन्निहितोपाधिकादर्थादिनिप्रत्ययो भवतीत्येतदर्थंरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु कृतप्रायम्()।
बाल-मनोरमा
पुष्करादिभ्यो देशे १९१५, ५।२।१३४

पुष्करादिभ्यो देशे। पुष्करशब्दान्मत्वर्थे इनिरेव स्याद्देशे गम्ये।

बाहुरुपूर्वपदद्बलादिति। वार्तिकमिदम्। बहु, ऊरु एतत्पूर्वपदकाद्बलशब्दान्तान्मत्वर्थे इनिरेवेत्यर्थः।

सर्वादेश्चेति। वार्तिकमिदम्।"इनिरेवे"ति शेषः।

अर्थाच्चासंनिहिते इति। वार्तिकमिदम्। असन्निहितविषयकादर्थशब्दादनिरेवेत्यर्थः। अर्थीति। असंनिहितोर्थोऽस्येति विग्रहः। अर्थो नास्तीति यावत्।?त्र विरोधादस्तीति न सम्बध्यते। अर्थोऽसंनिहितोऽस्येत्यर्थे अप्राप्त एव इनिर्विधीयत इति कैयटः।

प्रत्ययविधौ तदन्तविधिनिषेधादाह--तदन्ताच्चेति। अर्थशब्दान्तादपि इनिर्वक्तव्य इत्यर्थः