पूर्वम्: ५।२।१२७
अनन्तरम्: ५।२।१२९
 
सूत्रम्
वातातिसाराभ्यां कुक् च॥ ५।२।१२८
काशिका-वृत्तिः
वातातिसाराभ्यां कुक् च ५।२।१२९

वातातिसारशब्दाभ्यां इनिः प्रत्ययो भवति, तत्संनियोगेन च तयोः कुगागमो भवति। वातातिसारयोरुपतापत्वात् पूर्वेण एव सिद्धे प्रत्यये कुगर्थम् एव इदं वचनम्। वातकी। अतिसारकी। पिशाचाच् च इति वक्तव्यम्। पिशाचकी वैश्रवणः। रोगे च अयम् इष्यते। इह न भवति, वातवती गुहा।
न्यासः
वातातिसाराभ्यां कुक्? च। , ५।२।१२८

"वातातिसाराभ्याम्()" इति। यद्यपि पञ्चमी, तथाप्यर्थाद्विभक्तिविपरिणामो भवति। आगमसम्बन्धे षष्ठीभावेन विपरिणम्यते। अत एवाह--"तस्यन्नियोगेन च तयोः कुगागमः" इति। अथ प्रत्ययस्यैवागमः कस्मान्न भवति? कुगागमवता प्रत्ययेनार्थंस्यानभिधानात्()। स्वरूपं न सिध्यतीति च। "पिशाचाच्चेति वक्तव्यम्()" इति। पिशाचशब्दादिनिप्रत्ययो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--"बहुलं छन्दसि" ५।२।१२१ इत्यतो बहुलग्रहणमनुवत्र्तते, तेन पिशाचशब्दादपि भविष्यति॥
बाल-मनोरमा
वातातीसाराभ्यां कुक् च १९०९, ५।२।१२८

वातातीसाराभ्यां। चादिनिरिति। वात, अतीसार आभ्यां मत्वर्थे इनिः स्यात् प्रकृतेः कुक् चेत्यर्थः। कुकि ककार इत्। उकार उच्चारणार्थः। कित्त्वादन्तावयवः। वातकीति। वातरोगवानित्यर्थः। अथीसारकीति। अतीसाररोगवानित्यर्थः।

रोगे चायमिति। व्याख्यानादिति भावः। रोग एवेत्यर्थः। वातवती गुहेति। अत्र रोगस्याऽप्रतीतेरिनिकुकौ नेति भावः।

पिशाचाच्चेति। वार्तिकमिदम्। पिशाचादिनिः प्रकृतेः कुक्चेत्यर्थः।