पूर्वम्: ५।२।१२४
अनन्तरम्: ५।२।१२६
 
सूत्रम्
स्वामिन्नैश्वर्ये॥ ५।२।१२५
काशिका-वृत्तिः
स्वामिन्नैश्वर्ये ५।२।१२६

स्वामिनिति निपात्यते ऐश्वर्थे गम्यमाने। स्वशदादैश्वर्यवाचिनो मत्वर्थे आमिन् प्रत्ययो निपात्यते। स्वम् अस्य अस्ति इति ऐश्वर्यम् अस्य अस्ति इति स्वामी। स्वामिनौ। स्वामिनः। ऐश्वर्ये इति किम्? स्ववान्।
न्यासः
स्वामिन्नै�आर्ये। , ५।२।१२५

"एकाचः" इति रसादिषु ५।२।९४ पाठान्मतुपि प्राप्त इदमारभ्यते। "ऐ()आर्यवाचिनः इति। धनवचनोऽयं स्वशब्द ऐ()आर्यवाची। तथा च-धनयोगादै()आर्यं तदुच्यते। "स्ववान्()" इति। आत्मादावर्थान्तरे स्वशब्दो वत्र्तते॥
बाल-मनोरमा
स्वामिन्नै�आर्ये १९०६, ५।२।१२५

स्वामिन्नै()आर्ये। "ऐ()आर्ये" इति प्रकृतिविशेषणमित्यभिप्रेत्याह--ऐ()आर्यवाचकादिति। आमिनजिति। "निपात्यते" इति शेषः। स्वामीति। स्वम्ै()आर्यं, तद्वानित्यर्थः। नियन्तेति यावत्। ऐ()आर्ये इत्युक्तेर्धनवानित्यर्थे स्वामीति न भवति।

तत्त्व-बोधिनी
स्वामिन्नै�आर्ये १४६५, ५।२।१२५

स्वामिन्नै()आर्ये। ऐ()आर्यवाचकादिति। स्वशब्दस्यै()आर्यवाचित्वमेतद्वृत्तिविषयकमेवेति बोध्यम्। ईशिता हि ई()आरः। स तु स्वामीत्युच्यते। यथा वागीश एव वाचस्पतिः वाचः स्वामिति। ऐ()आर्ये किम्()। स्ववान्।