पूर्वम्: ५।२।१२३
अनन्तरम्: ५।२।१२५
 
सूत्रम्
आलजाटचौ बहुभाषिणि॥ ५।२।१२४
काशिका-वृत्तिः
आलजाटचौ बहुभाषिणि ५।२।१२५

वाच्शब्दात् प्रथमासमर्थादालचाटचित्येतौ प्रत्ययौ भवतो मत्वर्थे बहुभाषिणि अभिधेये। ग्मिनेरपवादः। वाचालः। वाचाटः। कुत्सित इति वक्तव्यम्। यो हि सम्यग् बहु भाषते वाग्मीत्येव स भवति।
न्यासः
आलजाटचौ बहुभाषिणि। , ५।२।१२४

"कुत्सिते" इति। वक्तव्यशब्दस्तु व्याख्याने वत्र्तत इत्यभिप्रायः "वक्तव्यम्()" इति। कुत्सितं यो बहुभाषते तत्रालजाटचौ भवत इत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं पूर्वसूत्र एव कृतम्()॥
बाल-मनोरमा
आलजाटचौ बहुभाषिणि १९०५, ५।२।१२४

आलजाटचौ। वाच्शब्दात्--आलच्, आटच् एतौ मत्वर्थे बहुभाषिणीत्यर्थः। ग्मिनोऽपवादः। यस्तु सम्यगिति। नच अबहु अकुत्सितं च यो वदति तत्रापि वाग्ग्मीति कुतो न भवतीति वाच्यं, "यो हि सम्यग्बहु भाषते वाग्गमीत्येव स भवती"ति भाष्यबलेन पूर्वसूत्रस्य सम्यग्बहुभाषिण्येव प्रवृत्तेरभ्युपगमादिति भावः।