पूर्वम्: ५।२।१०५
अनन्तरम्: ५।२।१०७
 
सूत्रम्
ऊषसुषिमुष्कमधो रः॥ ५।२।१०६
काशिका-वृत्तिः
ऊषसुषिमुष्कमधो रः ५।२।१०७

ऊष सुषि मष्क मधु इत्येतेभ्यो रः प्रत्ययो भवति मत्वर्थे। ऊषरं क्षेत्रम्। सुषिरं काष्ठम्। मुष्करः पशुः। मधुरो गुडः। इतिकरणो विवक्षार्थः सर्वत्राभिधेयनियमं करोति। इह न भवति, ऊषो ऽस्मिन् घटे विद्यते, मधु अस्मिन् घटे विद्यते इति। रप्रकरणे खमुखकुञ्जेभ्य उपसङ्ख्यानम्। खमस्य अस्ति कण्ठविवरम् महत् खरः। मुखम् अस्य अस्ति इति सर्वस्मिन् वक्तव्ये मुखरः। कुञ्जावस्य स्तः कुञ्जरः। हस्तिहनू कुञ्जशब्देन उच्येते। नगपांसुपाण्डुभ्यश्च इति वक्तव्यम्। नगरम्। पांसुरम्। पाण्डुरम्। कच्छ्वा ह्रस्वत्वम् च। कच्चुरम्।
न्यासः
ऊषसुषिमुष्कमधो रः। , ५।२।१०६

यथासम्भवं मतुपीनिठनोश्च प्राप्तयोरूषादिभ्यो रो विधीयते। "मधुरः" इति। मधुशब्दोऽत्र रसविशेषे वत्र्तते। "रप्रकरणे" इत्यादि। उपसंख्यानशब्दः प्रतिपादने वत्र्तते। तत्रेदं प्रतिपादनम्--"देशे लुबिलचौ च" ५।२।१०४ इत्यतश्चकारोऽत्र वत्र्तते, स चानुक्तसमुच्चयार्थः। तेन मुखप्रभृतिभ्योऽपि रो भवति। "नगपाण्डुपांशु" ["नगपांशुपाण्डुभ्यः काशिका] इत्यादि। नगपांशुप्रभृतिभ्यश्च रो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु तामेव चकारस्यानुवृत्तिमाश्रित्य कत्र्तव्यम्()॥
बाल-मनोरमा
ऊषसुषिमुष्कमधो रः , ५।२।१०६

ऊषसुषि। ऊष, सुषि, मुष्क, मधु-एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम्। सोत्रं पुंस्त्वम्। एभ्यो मत्वर्थे रप्रत्ययः स्यादित्यर्थः। ऊषर इति। ऊषः क्षारमृत्तिकाविशेषोऽस्यास्तीति विग्रहः। सुषिर इति। सुषिः=बिलम्,-अस्यास्तीति विग्रहः। मधुशब्दः क्षोद्रे द्रव्ये, माधुर्यात्मकरसविशेषे च गुणे वर्तते। तत्र रसविशेषवाचिन एवात्र ग्रहणमित्याह--मधुमाधुर्यमिति। तथा भाष्यादिति भावः। अन्यथा मधुद्रव्यवति घटेऽपि मधुरपदप्रयोगः स्यात्। खरो गर्दभः, धिष्णयो वा। मुखरः=शभ्दं कुर्वन्। कुञ्जरो-हल्ती। रूढशब्दा एते।

नगपांस्विति। वार्तिकमिदम्। "नगर"मिति जातिविशेषवाची। अत एव नगरीति ङीष्। पांसुर इति। पांसुरस्यास्तीति विग्रहः। पाण्डुर इति। पाण्डुः=शुक्लवर्णः, स अस्यास्तीति विग्रहः। कथं पाण्डरशब्द इत्यत आह--पाण्डरशब्दस्त्विति। "हरिणः पाण्डरः पाण्डु"रित्यमरः।

कच्छ्वा इति। वार्तिकमिदम्। कच्छूशब्दाप्र्रत्ययः, प्रकृतेह्र्यस्वश्च अन्तादेश इत्यर्थः। कच्छुरः--शुनां रोगविशेषः।

तत्त्व-बोधिनी
ऊषसुषिमुष्कमधो रः १४५३, ५।२।१०६

ऊषुसुषि। समाहारद्वन्द्वे सौत्रं पुंस्त्वम्। "स्यादूषः क्षार मृत्तिका"। "ऊषवानूषरः"इत्यमरः। सुषिस्छिद्रम्।

रप्रकरणे खमुखकुञ्जेभ्य उपसङ्ख्यानम्। खर इति। महत्कण्ठविवरं खं, तद्वानित्यर्थः। गर्दभे रूढोऽयम्। मुखरो वाचाल इति हरदत्तः।

नगपांसुपाण्डुभ्यश्च। नगरमिति। नगा वृक्षाः, पर्वताश्च। जातिशब्दोऽयम्। तथा च "नगरी"त्यत्र ङीष् भवति। नगशब्दोऽयमश्मादिषु पठ()ते इति वुञ्छणादिसूत्रेणास्य सिद्धत्वादस्माद्रोऽयं न वक्तव्य इति हरदत्तः। पाण्डुर इति। पाण्डुः शुक्लो वर्णस्तद्वान्। अव्युत्पन्न एवेति। गुणमात्रे गुणिनि च वर्तते। "हरिणः पाण्डरः पाण्डुः"इत्यमरः। "गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वती"ति च।

कच्छ्वा ह्यस्वत्वं च। कच्छ्वा इति। कच्छूस्त्वग्रोगविशेषः।