विश्वविश्रुतं भारतम्
भारतं प्रियं भारतम्,
विश्वविश्रुतं भारतम् ।
यस्य राजते अन्तरात्मना
संस्कृतिस्तथा संस्कृतम् ।
विश्वविश्रुतं भारतम् ॥ (ध्रुवम्)॥
धरणी पुण्या भाति वरेण्या महीयसी,
निसर्ग-रम्या सुजला सौम्या गरीयसी ।
अतुल्यशोभा सुरत्नगर्भा स्वनिर्भरा,
ऐक्य-भावना यशोवर्द्धना सौख्यभरा ।
भारत-जननीं लोकपावनीं
तां प्रणमामः सन्ततम् ।
भारतं प्रियं भारतम्,
विश्वविश्रुतं भारतम् ॥ १॥
देश-रक्षणे व्रतं भ्राजते निरन्तरम्,
वीरपुङ्गवैः शौर्यवैभवै-र्विभास्वरम् ।
राष्ट्रकेतनं प्रियं त्रिरङ्गं महोन्नतम्,
चिरं प्रशस्यं सदा नमस्यं समादृतम् ।
मातृवन्दनं शुचि-स्पन्दनं
हृदये नित्यं सङ्गतम् ।
भारतं प्रियं भारतम्,
विश्वविश्रुतं भारतम् ॥ २॥
जगद्-व्यापिनी नियतं नव्या प्रीतिमयी,
मानवताया भाति सुप्रभा दीप्तिमयी ।
विश्वबन्धुता-मार्ग-सुबन्धा वसुन्धरा,
आस्तिकताया अस्मितामयी स्वस्तिभरा ।
एकं नीडं विशाल-विश्वं
यत्र यथार्थं भाषितम् ।
भारतं प्रियं भारतम्,
विश्वविश्रुतं भारतम् ॥ ३॥
भातु सर्वतः शुभं सोरभं सांस्कृतिकम्,
रसाप्लावनं भातु राष्ट्रियं नान्दनिकम् ।
भातु जगत्यां भारतीयता-सुमाधुरी,
भातु भारती संस्कृताङ्किता प्रियङ्करी ।
सुधावर्षिणी सुधी-तोषिणी
सा प्रियभाषा निश्चितम् ।
भारतं प्रियं भारतम्,
विश्वविश्रुतं भारतम् ॥ ४॥
भातु संस्कृतं पर्यावरणं महीतले,
यातु दुष्कृतं मुदा राजतां हृदस्स्थले ।
लोकचरित्रं भातु पवित्रं सुकर्मणा,
सरसी मनसो भातु निर्मला सुदर्पणा ।
संस्कृतामृतं तनोतु शान्तिं
रसैः सुभावैः सम्भृतम् ।
भारतं प्रियं भारतम्,
विश्वविश्रुतं भारतम् ॥ ५॥
-- गीत-रचना : डाॅ हरेकृष्ण-मेहेरः
Copyright Dr.Harekrishna Meher