उत्कलेषु संस्कृतचर्च्चा

उत्कलेषु संस्कृतचर्च्चा

लेखकः - नन्दप्रदीप्तकुमारः सुरमुखरसभोक्त्रे भोगमोक्ष्यैकदात्रे नवनिधिगुणधात्रे स्वात्मविज्ञानगोप्त्रे । सरलमधुरवक्त्रे लोककल्याणकर्त्रे विपुलसुखविधात्रे संस्कृताय प्रणामः ॥ उत्कलीयाः संस्कृतप्रियाः । संस्कृतं सार्वभौमिकम् । अमरभाषा-समुज्ज्वलं संस्कृतं न कस्यापि विशिष्ट-जातेरुपकारकं नापि सांप्रदायिकत्वेन परिचितम्, अपितु समेषां मानव-जातीनां मंगलं विधातुं सर्वसमर्थमिति नातिशयोक्तिः । संस्कृतेषु सर्वादौ संगीतशास्त्रं विचार्यते । रसस्वरूपं संगीतम् । यं पीत्वा कृतकृत्यो जायते जनः । भारतीय-संस्कृतौ संगीतस्य स्थानं चरमं परमञ्च । कला-साहित्य-क्षेत्रे संगीतस्य प्राधान्यता दरीदृश्यते । जनजीवने संस्कृतिक्षेत्रे संगीतस्य महती आवश्यकता वर्तते । छन्दोवद्धं पद्यात्मकं लय-तालयुक्तं संगीतं वाद्य-नृत्यादिभिः लोलायितम् । उत्कलीय-आर्य-अनार्य-जनजातीनां सर्वेषां संगीतक्षेत्रे अवाधप्रवेशः । ते स्व-स्व भाषामाध्यमेन भावानुकूलं संगीतं रचयन्ति,परिवेषयन्ति च । संस्कृतभाषायां संगीतक्षेत्रे महाकवि-जयदेवः सर्वादौ सुपरिचितश्चिरनमस्यः, विश्वप्रसिद्ध उत्कलीयः । तन्निर्मितं गीतगोविन्दं न केवलं श्रीमन्दिरे अपि तु खिलेषु भारतवर्षेषु धर्मग्रन्थरूपेण विवेचितम् । पुरा श्रीजगन्नाथमन्दिरे देवदासी-नृत्यप्रथा प्रचलिता आसीत् । नृत्येन सह संगीतमनिर्वार्यमिति मनसि निधाय महाप्रभोः श्रीजगन्नाथस्य श्रीकृष्णस्वरूपं ध्यायं ध्यायं तन्निर्देशेन च कोमलकान्तपदावलिभिः सुसज्जितं जयदेवो गीतगोविन्दं रचितवान् । पश्चात् परवर्तिनो बद्धपरिकराः कवयः संगीतक्षेत्रे प्रविष्टाः । सफलीभूताश्च । समुत्पन्नेषु कविषु केषांचन नामानि अत्र न विस्मर्तव्यानि । कविचन्द्र-राय-दिवाकर-मिश्रेण निर्मितं तत्पृष्ठपोषक-गजपति-पुरुषोत्तमदेव-नाम्ना भणितं दशसर्ग-विशिष्टं ``अभिनव गीतगोविन्दम्'', पञ्चदश-शताब्यां राय-रामानन्देन लिखितं ``जगन्नाथवल्लभ'' -नाटकम्, जयदेवाचार्यस्य ``पीयूषलहरी'' - एकांकिका, यतीन्द्र-रघुत्तम तीर्थस्य ``मुकुन्दविलास'' -महाकाव्यम्, कृष्णदासकृत-``गीतप्रकाशः'', नित्यानन्दकविकृत ``शिवलीलामृतम्'', तकृत-'' श्रीकृष्णलीलामृतम्'', शतदेव-मिश्रस्य ``मुदितमाधवम्'', अनादि-मिश्रस्य ``मणिमाला'' -नाटिका-'' केलिकल्लोलिनी'' - ``रसगोष्ठी'' रूपकानि प्रणिधानयोग्यानि भवन्ति । षोडश-शताब्द्यां मोगल-साम्राज्ये सुपरिचित-आकवर-सभापण्डितः संगीतज्ञः कृष्णदास बडजेना महापात्रः ``गीतप्रकाशं'' रचितवान् । तस्मिन् समये हलधर मिश्रस्य ``संगीतकल्पलता'', हरिचन्दनस्य ``संगीत-मुक्तावली'', सप्तदश-शताब्द्यां रघुनाथ रथस्य ``नाट्यमनोरमा'' ``संगीतार्णव-चन्द्रिका'', नारायण मिश्रस्य ``संगीतसरणिः'', कविचन्द्र-पुरुषोत्तम-मिश्रस्य ``तालसर्वस्वः'', शार्गंदेवस्य ``संगीतरत्नाकरः'', पारलाखेमुण्डिराज-गजपति-जगन्नाथ-नारायणदेवस्य ``संगीतनारायणः'', पद्मनाभ-नारायण-देवस्य ``तालसर्वसारसंग्रहः'', ``चतुर्दण्डिप्रकाशिका'' - ``रागचित्रादीनि'' संगीत-पुस्तकानि रससिक्तानि सन्ति । अष्टादश-शताब्द्यां गोविन्द-कविभूषण-सामन्तरायस्य ``समृद्धमाधव'' -नाटकम्, कमल लोचन खड्गरायस्य ``संगीत चिन्तामणिः'', ``गीतमुकुन्दम्'', व्रजयुवविलासादीनि संगीत-शास्त्राणि च समुद्भवानि । काव्यालंकार-नाटक-एकांकिकादि-क्षेत्रेषु गंजाम-मण्डलाधिप-शेरगड-राज्याधिपति-जनार्दन-प्रोत्साहित-कविना शितिकंठेन द्वादशसर्गविशिष्टं ``गीतसीतावल्लभम्'' महाकाव्यं प्रस्तुतम् । द्वादशतताब्द्यां कोणार्क-सूर्य-मन्दिरनिर्मातृ नरसिंह देवस्य सभाकविना विद्याधरेण ``एकावलीनाटिका'' विनिर्मिता । विश्वप्रसिद्ध-विश्वनाथ कविराजेन ``साहित्यदर्पणः'', ``चन्द्रकला'' नाटिका अन्यानि बहुग्रन्थरत्नानि संपादितानि । चण्डिदासेन ``काव्यप्रकाशदीपिका'' विनिर्मिता । सान्धि-विग्रहिक-महामहोपाध्याय-सामन्तचन्द्रशेखरेण ``सिद्धान्तदर्पणः'' संपादितः । कृष्णानन्द-सान्धिविग्रह-महापात्रेण ``सहृदयानन्द'' -महाकाव्यं विरचितम् । राधामोहन बक्सिना ``भारत भ्रमण'' -काव्यमकारि । साहित्य क्षेत्रे कविचन्द्र भुवनेश्वर रथस्य ``लक्षणा परिणयः'', वीरबलभद्रपुर शासन निवासिनः मधुसूदन तर्क वाचस्पतेः ``हनुमत्संन्देशः'', ``तारा शशांकः'', ``मायाशवरी'', ``लक्ष्मीशतकं'', ``गजशतकं'', ``सोमनाथ-शतकानि च प्रसिद्धाः ग्रन्थाः । पुरी-सदाशिव-संस्कृत-संस्थानस्य प्रतिष्ठापकेन अध्यक्ष चरेण आचार्य हरिहर दाशेन च बहुग्रन्थाः विरचिताः । तिगिरिआ-निवासिना भुवनेश्वर-मिश्र-बडपण्डा-महोदयेन ``आनन्द-वृन्दावन-चम्पूः'' संकलितः । महामहोपाध्याय सदाशिव मिश्रेण ``चन्दन चम्पूः'', ``कल्यापत् धर्मसंग्रहौ'' च विरचितौ । सदाशिव-संस्कृत-महाविद्यालय- भूतपूर्वाध्यक्षेण विश्वनाथ-महापात्रेण ``काञ्ची विजयः'', ``सरस्वती विलासः'', ``सावित्री परिणयः'' प्रमुखाः ग्रन्था विलिखिताः । गोपबन्धु विद्याभूषणेन ``रुद्धद्वारः'', ``कन्योद-राजवंश चरितम्'', ``माठरवंशः'' ग्रन्थाः संकलिताः । कविशेखर-आर्त्तत्राण-मिश्रेण ``काशीशदर्पदलनं'' प्रस्तूतम् । सुदर्शन-पाठिना ``दीपिका नाठकम्'', ``सिंहल विजय नाठकम्'', ``करुणा पारिजातः'', ``पादुकाविजयः'' इत्यादीनि नाटकानि लिखितानि । ब्रह्मपुर-निवासिना अनन्त-त्रिपाठिना ``निबन्धमाला'', ``लावण्यवती'' - ``वैदेहीश विलासयोः संस्कृतानुवादाश्च `` संपादिताः । पण्डित -प्रबोध-कुमार-मिश्रेण ``मलय दूतम्'', ``स्वप्नदूतम्'', ``बन्दिन आत्मकथा'' दि ग्रन्थाः विरचिताः । एतदतिरिका अर्वाचिनेषु गोपीनाथ-महापात्रस्य ``कालिदास कवितारस-माधुरी'', ``जगन्नाथाष्टकम्'', ``दीनबन्ध्वष्टकम्'', कालिदासाष्टकानि अनुपमानि सन्ति । जगन्नाथ रथस्य ``अनुभूति शतकम्'', गोविन्दचन्द्र मिश्रस्य ``जयदेव प्रशस्तिः'', हरिहर नन्दस्य ``सिद्धान्त कौमुदी टीका'', हरेकृष्ण महतावस्य ``चाणक्य विजयम्'', चन्द्रशेखर मिश्रस्य ``जगन्नाथ शतकम्'', जयकृष्ण मिश्रस्य ``मातृमुक्ति मुक्तावली'', बानाम्बर आचार्यस्य ``केन्दुझर राजानः चरितम्'', सीतादेवी खाडंगायाः ``अरण्यरोदनम्'', विश्वनाथ वर्मणः ``श्रीवर्म रुक्मिणी परिणयः'', राधानाथ रायस्य ``भारती वन्दना'', वाउरी बन्धु नन्दस्य ``मनोदूतम्'', दयानिधि मिश्रस्य ``सूर्यदूतम्'', नीलकंठ वाचस्पतिनः ``गंगाधर चम्पूः'', सुदर्शन मिश्रस्य ``सुदर्शनानन्द चम्पूः'', गोपीनाथ दाशस्य ``श्रीदाश पुष्पाञ्जलिः'', मदनमोहन करस्य ``ग्रहयाग पद्धतिः'', त्रिविक्रम पतिनः ``गोपबन्धु स्मृतिः'', जगन्नाथ रथस्य ``नागरिकमुद्बोधनम्'', विषकंठ वाचस्पतिनः ``वाणीविलासः'', कामाक्षी प्रसाद शर्मणः ``कामाक्षी स्तोत्र रत्नमाला'', लडुकेश्वर शतपथिनः ``कालिदास दशकम्'', गोपीनाथ रथस्य ``विधिविडम्बनम्'', कृष्णचन्द्र आचार्यस्य ``सुकवि महिमा'', गुणनिधि त्रिपाठिनः ``पुरुषोत्तम माहात्म्यम्'', कुरामणि पाठिशर्मणः ``नियति'' पत्रिकायां लिखित-श्लोकाः, गणेश्वर रथस्य ``लिंगराजायतनम्'', आनन्द महापात्रस्य ``श्रीराधिका प्रपत्तिः'', वासुदेव महापात्रस्य ``सावित्री परिणयम्'', रमाकान्त मिश्रस्य ``महात्मागान्धीः'', हरेकृष्ण शतपथिनः ``कविशतकम्'', ``गंगाजल दूषितम्'', वनमालि-विश्वालस्य ``ऋतुपर्णा'', ``जिजिविषा'', ``विवेकलहरी'', ``व्यथा'', ``दारुब्रह्म'', ``प्रियतमा'' -प्रमुखाः ग्रन्थाः, केशव चन्द्र दाशस्य ``प्रणय प्रदीपम्'', ``हृदयेश्वरी'', ``महातीर्थम्'', ``अलका'', ``ईशा'', ``भिन्न पुलिनम्'', ``प्रतिपत्'', ``निकषा'', ``ऋतम्'', ``विसर्गः'','' शशिरेखा'', ``Oंशान्तिः'', प्रमुखाश्च बहुग्रन्थाः, हरेकृष्ण मेहेरस्य बहव अनुवादित-ग्रन्थाः, प्रदीप्त नन्दस्य ``श्रीक्षेत्रसुधानिधिः'', ``श्रीजगन्नाथ दर्शनम्'', ``भक्तिनिर्झरिणी'', ``शिवार्च्चन प्रदीपाः'' ग्रन्थाः, दिगम्बर महापात्रस्य ``उत्कलोदयः'', ``सुरेन्द्र चरित महाकाव्यम्'', ``ऋतुचक्रम्'', ``भवते रोचते यथा'', ``रंगरुचिरम्'', ``व्यस्तरागम्'' ग्रन्थाः, वैकुण्ठ विहारिनन्दस्य ``शरणागति स्तोत्रम्'' महामहोपाध्याय-पण्डित-गोविन्द चन्द्र मिश्रस्य ``श्रीसारला शतकं'', ``वैजयन्ती शतकं'', ``प्रसेन विजय चम्पूः'', ``श्रीराम लीलामृतम्'', ``वदनचन्द्र-प्रकाशिका'' दयो ग्रन्थाः, प्रमोद चन्द्र मिश्रस्य ``उत्कलगौरवम्'', ``अन्योक्ति पञ्चाशिका'', ``मूर्खशतकं'', ``व्योमयान शतकं'', ``चन्द्रदूतम्'', चान्यानि काव्यरत्नानि च सन्ति । उपर्युक्ताः संस्कृतज्ञाः उत्कलेषु शास्त्रिय-काव्य- संगीत-नाटक-अलंकार-गान्धर्व-एकांकिका-अभिनय-कला-संस्कृति-साहित्यादि-क्षेत्रेषु प्रशंसनीया भवन्ति । वैदिकक्षेत्रे अथर्व वेदस्य ``पैपल्लाद शाखा'' उत्कलेषु संगृहीता । भौम-सोमवंश-राजत्वसमये मुरारिकविना ``अनर्घ राघव'' -नाटकं प्रणीतम् । आचार्य-शतानन्देन ``भास्वती'' प्रकाशिता । तदतिरिक्तौ तेन ``शतानन्द रत्नमाला'', ``शतानन्द संग्रहः'' -नामकौ गन्थौ विरचितौ । पुरुषोत्तमदेवस्य राजनि वैष्णवधर्मो विस्तारितः । अस्मिन् समये धर्म-प्रचार-क्षेत्रे श्रीधरस्वामी, रघुत्तम तीर्थः, आनन्दगिरिः, राय रामानन्द-प्रमुखाः उत्कलीयाः वरेण्या-वैष्णवाः स्व स्व कार्याणि संपादितवन्तः । तक्षशिलायाः प्रधानाचार्यो माध्यमिकवादि-बौद्धनेता नागार्जुनोऽपि उत्कलीयः इति ऐतिहासिका निरूपयन्ति । पुरीमण्डलमण्डितः आर्या सप्तशत्याः लेखको गोवर्धनाचार्यः प्रसिद्धः । तदतिरिक्ताः नीलाम्बर आचार्य-उदयनाचार्य-बलभद्रादयो विद्वांसः उत्कलजननीं कृतार्थीकृतवन्तः । धर्मशास्त्रक्षेत्रेषु गंगवंश-युगीयाः वाजपेयिनः अग्रगण्याः । तेषु भारद्वाजगोत्र-शम्भुकर वाजपेयी प्रसिद्धः । तत्कृतिषु ``अग्निहोत्र होमपद्धतिः'', ``अग्निहोत्रहोमः'', ``प्रायश्चित पद्धतिः'', ``दर्श-पौर्णमासेष्टि पद्धतिः'', ``दुर्बलकर्म पद्धतिः'', ``निरुढ पशुयाग पद्धतिः'', ``स्मार्त्तरत्नावली'', प्रमुखाः ग्रन्थाः विश्व- प्रसिद्धाः । ``शम्भुकर पद्धतिः'' अस्य महान् धर्मशास्त्रिय-ग्रन्थः । त्रयोदश-शताब्दीय- विद्याकर वाजपेयिना अष्टभागात्मको नित्याचार पद्धतिर्विनिर्मिता । अधुना एसिआटिक् सोसाइट् द्वारा प्रकाशिता च । विद्याकरस्य प्रियशिष्य-रामचन्द्र वाजपेयिना नैमिष्यारण्ये बहुकालं संन्यस्य बहुग्रन्थाः विरचिताः । महाराज-पुरुषोत्तम-देवेन ``अभिनव गीतगोविन्दम्'', ``मुक्तिचिन्तामणिः'', ``गोपालार्चनपद्धतिः'', ``नाममालिका'', ``आनन्दविलासः'', ``दशग्रीव वधः'', ``जानकी प्रमोदः'', ``कुवलयाश्वचरितम्'', ``अभिनव वेणीसंहारम्'', ``दुर्गोत्सवः'', ``भुवनेश्वरी पूजा'', एवमन्ये ग्रन्थाः विरचिताः । विंशति-सर्गात्मकं ``दशग्रीव वध'' -नाटकं कवीन्द्र-मार्कण्डेयस्य कृतिरिति केचन मन्यन्ते । तेन पुरुषोत्तमदेवस्य नाम्ना भणितम् । पञ्चदश-शतकस्य मुकुन्ददेवस्य सभापण्डितेन कृष्णदास-बडजेना-महापात्रेण ``गीतप्रकाशकः'' ग्रन्थो विरचितः । पुरुषोत्तम-मिश्रेण ``नीलाद्रिनाथ-शतकम्'', नैषधचरित टीका-प्रसूतं ``भागवत महाकाव्यम्'', ``रामचन्द्रोदय काव्यम्'', संगीतनारायणादीनि बहुशास्त्राणि विरचितानि । अष्टादश-शताब्दि-मण्डित-पण्डित-कौण्डिन्य-गोत्रिय-रघुनाथ-दाशेन बहुग्रन्थाः संकलिताः । तेषु ``भट्टीकाव्य-टीका'', ``साहित्य-भूषणम्'', ``वृत्तावलिः'', ``कालनिर्णयः'', ``श्राद्धनिर्णयः'', ``उत्पात तरंगिणी'', ``न्याय रत्नावलिः'', ``रघुवंश टीका'', ``अमरकोशटीका'', ``काव्यप्रकाश टीका'', ``शिशुपालवध टीका'', ``वनदुर्गा पूजा'', ``बर्द्धमान प्रकाशः'', ``कारक निर्णयः'', ``वैद्य कल्पलता'', ``सार सिद्धान्त संग्रहा'' ख्याः व्याकरणग्रन्थाश्च प्रसिद्धाः वर्तन्ते । हरेकृष्णपुर शासन-निवासिना गदाधर-राजगुरुणा ``गदाधरपद्धतिः'' संपादिता । अष्टादशाध्यायविशिष्टोऽयं ग्रन्थः संप्रति अष्टाध्यायविशिष्टतया उपलभ्यते । नाटकक्षेत्रे भट्टनारायणः श्रेष्ठनाटककारः । तेन ``वेणीसंहार'' -नाटकं विलिखितम् । राज्ञः कपिलेश्वरस्य ``परशुराम विजयः'', नारायणानन्दस्य ``श्रीरामचन्द्रानन्दम्'', जीवदेव- पुत्रस्य द्वितीय जयदेवस्य ``पीयूष लहरी नाटिका'', ``वैष्णवामृत नाटकम्'', च प्रमुखानि सन्ति । अभिधान-क्षेत्रे पुरुषोत्तमदेवस्य ``त्रिकाण्ड शेषः'', ``हारावली'', मेदिनीकरस्य ``मेदिनी'' कोशाः श्रेष्ठाः । व्याकरण-क्षेत्रे मार्कण्डेय मिश्रस्य ``प्राकृत सर्वस्वः'', जुमरस्य ``जुमर व्याकरणम्'', रामभद्रस्य ``सिद्धान्त चन्द्रिका'', अनुभूति स्वरूपाचार्यस्य ``सारस्वत व्याकरणम्'', ``प्रबोध चन्द्रिका'' दीनि दृष्टिपथे विलसन्ति । तन्त्रग्रन्थेषु ``उड्डियान तन्त्रम्'' ``उडभास्वर तन्त्रम्'' ``उड्डिश'' तन्त्राणि च उत्कलेषु विनिर्मितानि । अन्येषु तन्त्रग्रन्थेषु गोदावर मिश्रस्य ``यन्त्र चिन्तामणिः'', ``शारदार्च्चन पद्धतिः'', पुरुषोत्तमदेवस्य ``भुवनेश्वरी पल्लवः'', ``प्राकृत चण्डी'', विद्याधर बाजपेयिनः ``शक्ति प्रतिमा प्रतिष्ठा'', वर्द्धन महापात्रस्य ``दुर्गोत्सव चन्द्रिका'', वासुदेव रथस्य ``भुवनेश्वरी प्रकाशः'',लक्षेश्वर रथस्य ``ज्ञानावली'' तन्त्राणि च स्मर्तव्यानि । दर्शनक्षेत्रेऽपि उत्कलीया धुरन्धरा आसन् । ज्ञानसिद्धेः कर्ता इन्द्रभूतिः, बौद्ध-दार्शनिको धर्मकीर्त्तिः, नागार्जुनादयश्च उत्कलीय- सन्तानाः आसन् । श्रीधरस्वामिनः ``गीता-भागवत टीके'' प्रसिद्धे । वालेश्वर-रेमुणा-भूमिगौरवस्य बलदेव विद्याभूषणस्य ब्रह्मसूत्रोपरि ``गोविन्दभाष्यम्'' प्रसिद्धम् । एतदतिरिक्तं तेन ``ऐश्वर्यकादम्बिनी'', ``प्रमेय रत्नावली'', ``लघुभागवतामृतम्'', ``काव्यकौस्तुभः'', ``विष्णुसहस्रनाम भाष्यम्'', ``सिद्धान्तरत्नम्'', ``भगवद्गीताभाष्यम्'', वेदान्त स्यमन्तकादयः बहुग्रन्थाः विरचिताः । जगन्नाथ रथस्य ``जैनदर्शनम्'', लोकनाथ शास्त्रिणः ``सिद्धान्त मुक्तावली टीका'', दामोदर महापात्रस्य ``सर्वदर्शन कौमुदी'', ``योगतत्त्व वारिधिः'', प्रो०नीलकंठ-शतपथिनः ``सामान्य-दर्शनम्'', ``दर्शनेषु तत्त्वचतुष्टयम्'', शिवार्च्चनपद्धत्यादयो ग्रन्था अनुपमाः । प्रो० प्यारीमोहन पट्टनायकस्य ``न्याय परिभाषा'', ``न्यायसूत्र वात्स्यायन भाष्यस्य रैखिक प्रतिनिरूपणम्'', ``वैशेषिकसूत्रोपस्कारस्य रैखिक प्रतिनिरूपणम्'', ``मीमांसा परिभाषायाः रैखिक प्रतिनिरूपणम्'', ``सांख्यकारिकायाः रैखिक प्रतिनिरूपणम्'', ``वेदान्तसारस्य रैखिक प्रतिनिरूपणम्'' इत्यादयो ग्रन्थाः प्रसिद्धाः रेखाचित्रपरकाः सन्ति । प्रो० प्रलय कुमार नन्दस्य ``योगलक्षण-विमर्शः'', ``अक्षपादीय-कणादीय-दर्शनयोः जातिस्वरूपविमर्शः'' इति द्वौ ग्रन्थौ प्रसिद्धौ । गवेषणाक्षेत्रे डाॅ सत्यनारायण राजगुरुः, केदार नाथ महापात्रः, ऐतिहासिको विनायक मिश्रः, पण्डित नीलकंठ दाशः, कृष्णचन्द्र राजगुरुः, अध्यापक-भगवान-पण्डादयः उत्कलीय-विद्वांसः अग्रगण्याः राजन्ते । केचन ऐतिहासिकाः कालिदास-दिङ्नागौ, उत्कलीयौ इति समामनन्ति, तन्मृग्यम् । अन्ततो गत्वा संस्कृतं प्रति उत्कलीयानां अवदानं चिरस्मरणीयं न विस्मरणीयमित्युक्त्वा लेखं समापयामि । अलमतिविस्तरेण । जयतु संस्कृतम् । जयतु उत्कलम् । जयतु भारतम् । --- लेखकः - नन्दप्रदीप्तकुमारः सहायकग्रन्थाः - १- A History of Sanskrit Literature. Macdonell 1899 २- History of Sanskrit Literature. Dr. S N Dasgupta and Dr. S.K De 1941 ३- The Literature of Orissa vol-2 W W Hunter ४- Descriptive Catalogs of Sanskrit Manuscripts in the Collection of the Asiatic Society of Bengal. ५- Bihar and Orissa Research Society, Odisha Acedemy. ६- Inscription of Orissa. Vol-1, 2 and 3 Prof- S N Rajguru ७- Govardhan Acharya and Udayana Acharya-Kedarnath Mohapatra O. H.P. J. Vol-7 ८- Kabi Udayanacharya, Jhankar 3rd year 6th vol ९- ओडिआ साहित्य कु उत्कलीय संस्कृतिर दान- केदारनाथ महापात्र, ओडिआ साहित्य एकादेमी भुवनेश्वर, १९८२ १०- The contribution of utkal to Sanskrit literature. Dr. K.B.Tripathy ११- संस्कृत साहित्यर इतिहास- डाॅ गोपीनाथ महापात्रः १२- ओडिशारे संस्कृत चर्च्चार परंपरा- ओडिशा साहित्य एकाडेमी-१९८२ Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : Discussion of Sanskrit (Literature) in Utkala/Orissa
% File name             : utkaleShusaMskRRitacharchchA.itx
% itxtitle              : utkaleShusaMskRitacharchchA (lekhaH)
% engtitle              : utkaleShusaMskRitacharchchA
% Category              : misc, sahitya, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : May 15, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org