ऋषिगौतमप्रोक्ता तीर्थेश्वरमहिमा

ऋषिगौतमप्रोक्ता तीर्थेश्वरमहिमा

साधु पृष्टमिदं क्षेत्र तीर्थोत्तममिति स्मृतम् । अयं तीर्थेश्वरो देवो लिङ्गं तीर्थेश्वराभिधम् ॥ १॥ अस्य तीर्थस्य महिमा वेदैर्विज्ञायते परम् । मयाऽपि तत्प्रसादेन कथञ्चित् ज्ञायते खलु ॥ २॥ अत्र पूर्वं मुनिवराः शङ्कराराधनोत्सुकाः । बहवस्तीर्थनाथस्य पूजाध्यानरताः सदा ॥ ३॥ ते लब्ध्वा कामनिचयं भुक्त्वा भोगान् यथेच्छया । अन्तर्हिताः प्रयतेन लिङ्गे तीर्थेश्वराभिधे ॥ ४॥ इदं तु कामदं लिङ्गं भुक्तिदं च मुनीश्वराः । एतन्निर्माल्यपूजापि मुक्तिसाधनमुच्यते ॥ ५॥ पुरा विजयया सृष्टं जययापि पुरं परम् । धीरे क्षीरनदीतीरे गौरीतीर्थेश्वराज्ञया ॥ ६॥ रत्नप्राकारसङ्कीर्णं रत्नगोपुरसङ्कुलम् । ततस्ताभ्यां महादेवस्तीर्थेशः प्रार्थितः स्तवैः ॥ ७॥ त्वया त्वदाज्ञया सृष्टे नगरे रत्नमन्दिरे । वसतिः सततं कार्या दयया परयेत्यपि ॥ ८॥ तयोस्तद्वचनं श्रुत्वा तथास्त्वित्याह शङ्करः । ततः परं गतं ताभ्यां सन्तोषेण शिवाज्ञया ॥ ९॥ स्वभक्तानुग्रहं कर्तुं स्वनिर्माल्येऽपि शङ्करः । स्थितः समर्चितो भक्त्या सर्वाभीष्टप्रदो भवेत् ॥ १०॥ ततः स्वभक्तमीतेऽपि स्थितो निर्माल्यचन्दने । शिवस्तन्नगरं प्राप तदभीष्टप्रदो बुधाः ॥ ११॥ तत्राभीष्टप्रदो जातः स्वभक्तेभ्यः सदाशिवः । करिष्यन्त्यत्र बहवः तत्पूजां भाग्यलिप्सवः ॥ १२॥ ये नित्यं तीर्थनाथस्य निर्माल्यस्यापि पूजनम् । करिष्यन्ति प्रयत्नेन ते पूज्याः स्युः सुरैरपि ॥ १३॥ यदा यदा यत्र स तीर्थनाथो ध्यातः स्वभक्तैरपि पूजितः स्यात् । तत्र स्थितस्तत्कृतपूजयैव दास्यत्यवश्यं तदभीप्सितानि ॥ १४॥ एतन्निर्माल्यमादाय दिव्यचन्दनलक्षणम् । विजया पट्टणं प्राप्य कञ्चिल्लिङ्गं करिष्यति ॥ १५॥ तल्लिङ्गपूजया तावत् ज्ञानं भाग्यं च भासुरम् । प्राप्तव्यमस्य यत्नेन शिवभक्तेन तेन हि ॥ १६॥ तत्सन्ततिप्रवृद्धिश्च भविष्यति दिने दिने । तल्लिङ्गचन्दनेनैव प्रवृत्तिं स करिष्यति ॥ १७॥ तस्य पुत्राश्च पौत्राश्च तल्लिङ्गार्चनतत्पराः । सर्वे सौभाग्यसम्पन्नाः वृद्धिं यास्यन्ति सर्वथा ॥ १८॥ तल्लिङ्गदर्शनं कर्तुं शाङ्करः कश्चिदुत्तमः । आगत्य तस्य लिङ्गस्य पूजनं स करिष्यति ॥ १९॥ तद्भावलिङ्गमालोक्य प्रत्यहं तस्य पूजनम् । कृत्वा स्थास्यति तद्गेहे तदन्नैरेव पोषितः ॥ २०॥ सोऽपि शाम्भवमालोक्य तेन स्नेहं करिष्यति । श‍ृण्वन् शिवकथास्तस्मात् तुष्टः स्थास्यति सर्वथा ॥ २१॥ काले काले प्रयत्नेन तस्य लिङ्गस्य सेवया । तच्चित्तं निर्मलं तेन स तत्सेवां करिष्यति ॥ २२॥ सन्निधानं महेशस्य तीर्थेशस्यास्य सर्वदा । सिद्धिप्रदायकस्यास्य भावलिङ्गे भविष्यति ॥ २३॥ भावलिङ्गालयस्यास्य बहुभाग्यप्रदस्य च । स्मरणादेव सिद्धयन्ति फलानि विविधान्यपि ॥ २४॥ सिद्धलिङ्गेष्विदं लिङ्गं प्रसिद्धं सर्वकामदम् । एतदभ्यर्चनेनैव मुक्तिः करतलाश्रया ॥ २५॥ ॥ इति शिवरहस्यान्तर्गते ऋषिगौतमप्रोक्ता तीर्थेश्वरमहिमा सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३६। ५३-७७ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 36. 53-77 .. Proofread by Ruma Dewan
% Text title            : Rishigautamaprokta Tirtheshvara Mahima
% File name             : tIrtheshvaramahimARRiShigautamaproktA.itx
% itxtitle              : tIrtheshvaramahimA RiShigautamaproktA (shivarahasyAntargatA)
% engtitle              : tIrtheshvaramahimA RiShigautamaproktA
% Category              : misc, shivarahasya
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 36| 53-77 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org