तीर्थाटनम्

तीर्थाटनम्

प्रथमखण्डः । मन्दस्मितार्द्रवदनं करुणामयलोचनम् । गुरुवायुपुरोद्भासि पूर्णे ब्रह्म समाश्रये ॥ १॥ मनसः शान्तिमाधातुं तीर्थाटनमनुष्ठितम् । स्मृत्या रोमन्थायमानो वर्णयामि यथामति ॥ २॥ किरातवपुषं देवं परमं कुलदैवतम् । तीर्थयात्रासमुद्युक्तः प्रार्थये भक्तिपूर्वकम् ॥ ३॥ ``नमस्ते शबराकार भगवन् भक्तरक्षक । प्रसीदः भूयान्निर्विघ्नमिदं तीर्थाटनं मम'' ॥ ४॥ ततः प्रसन्नहृदयः प्रस्थितः स्वगुहादहम् । नानाभक्तममाकाणां सायं गुरुपुरीमगम् ॥ ५॥ प्रातर्गुरुमरुद्गेहे लब्धं निर्माल्यदर्शनम् । दृष्टं भगवतो रूपं सर्वालङ्कारभूषितम् ॥ ६॥ ततश्चाभ्यङ्गसुस्नातं पट्टकौपीनधारिणम् । किरीटिनं मन्दहाससुन्दरास्येन्दुमण्डलम् ॥ ७॥ करुणामृतनिष्यन्दिविलोलनयनाञ्चलम् । कदलीपक्कसंशोभिवामेतरकराम्बुजम् ॥ ८॥ मनोज्ञशैशवावस्थं कृष्णं गुरुमरुत्पतिम् । दूष्ट्वानन्दाश्रुसंरुद्धकण्ठेन प्रर्थितं मया ॥ ९॥ हरे, कृष्ण, दयासिन्धो गुरुवायुपुरीपते । रम्यं भळद्रूपमिदं नित्यं मनसि भासताम् ॥ १०॥ भवत्प्रसादाद्भूयान्मे तीर्थाटनमिदं शुभम् । यतोऽहमाप्नुयां शान्तिं मानसीमनपायिनीम् ॥ ११॥ अनन्तरं चक्रधरबिजेल्वानेन सूरिणा । साकं संप्रस्थितं प्रातर्गुरुवायुपुरान्मया ॥ १२॥ केरलान् द्रविडांश्चापि नानादृश्यमनोहरान् । ग्रामांस्त्वथैव नगरान् दृष्ट्वा हृष्टान्तरात्मना ॥ १३॥ प्राप्ता साये सुमम्पन्ना रम्या सा त्रिशिरःपुरी । यस्याः समीपे कावेरी प्रवहत्यतिपावनी ॥ १४॥ प्राह्णे परेद्युर्नगरे तत्र संस्कृतपण्डितैः । मण्डिता परिषत्सम्यगारब्धातिमहीयसी ॥ १५॥ निमन्त्रितौ द्रविडगैर्बुधैस्तदधिकारिभिः । आवां सन्निहितौ तत्र सदसि प्रीतिपूर्वकम् ॥ १६॥ तस्मिन् संस्कृतसाहित्यपरिषद्वार्षिकोत्सवे । बिजेल्वानः सुधीरासीदग्रासनपदे वृतः ॥ १७॥ तस्य प्रभाषणं सारसम्पूर्णे प्रौढसुन्दरम् । आनन्दतुन्दिलांश्चके सदस्यान् पण्डितोत्तमान् ॥ १८॥ अपराह्णे चानुबद्धा परिषत्सा गरीयसी । निशायां तत्र सदसि चलच्चित्रं प्रदर्शितम् ॥ १९॥ औत्तराहक्षेत्रजातं यावद्वदरि विश्रुतम् । गङ्गादीनि च तीर्थानि तत्र दृष्टानि यन्मया ॥ २०॥ तदेतत्काकतालीयमभूत्तीर्याटकस्य मे । केवलं दाक्षिणात्येषु तीर्थेष्वटनमिच्छतः ॥ २१॥ अथापरन्द्युरुषसि श्रावणोत्सववासरे । गिरिदुर्गमहाक्षेत्रमगमं सुहृदा समम् ॥ २२॥ यो भाति त्रिशिरःपुर्यो शैलः कृष्णशिलामयः । विदारितस्य तस्यान्तः शिलज्ञैः परमादुभुतम् ॥ अनेकतलसङ्क्लृप्तं नानादेवालयान्वितम् । २३ श‍ृङ्गाग्रपर्यन्तशोभिशिलासोपानसुन्दरम् ॥ २४॥ अत्युच्चशैलशिखारप्रतिष्ठितगणेश्वरम् । पुराणशिल्पवैदग्ध्यसर्वस्वमिव सेभृतम् ॥ २५॥ गिरिदुर्गक्षेत्रमिदं ``पल्लवा'' निरमापयन् । मध्यमेऽत्र तले रम्ये महार्हं मन्त्रमण्डपम् ॥ २६॥ सन्दृष्टं पल्लवानां तद्विनायकसुरक्षितम् । गूढनिर्गमने शैलगुहामार्गोऽत्र निर्मितः ॥ २७॥ तत्रोपदेवानानम्य शिल्पान्युद्वीक्ष्य विस्मितः । शैलश‍ृङ्गं समारुह्र चाद्राक्षं गणनायकम् ॥ २८॥ तं तुङ्गपीबराकारं मनोज्ञमुकुटाञ्चितम् । धीरपिङ्गलनेत्रान्तनिस्सरत्करुणामृतम् ॥ २९॥ एकदन्तं दीर्घशुण्डामृष्टतुन्दं चतुर्भुजम् । महागणपतिं देवं व्यनमं भक्तिपूर्वकम् ॥ ३०॥ कर्पूरनीराजनादि कारयित्वा प्रसन्नधीः । अनौषं विघ्नराजं तं कृताञ्जलिपुटो मुदा ॥ ३१॥ यस्य कृपामृतवर्षा- त्सम्पन्ना याति सर्वतोभद्रा । त्रिशरःपुरी स देवो ददातु नः शाश्वतानि भव्यानि ॥ ३२॥ ``भगवन्, गणनाथ, विभो, भक्तं दुःखार्दितं भवद्दासम् । पादब्जप्रणतममुं'' दृष्ट्याऽनुगृहाण शान्तिदायिन्या ॥ ३३॥ ततश्चात्युन्नते शैलश‍ृङ्गे तिष्ठन् सकौतुकम् । अपश्यं परितः कृत्स्नां नगरीं रम्यदर्शनम् ॥ ३४॥ किञ्चादूरे विराजन्तीं सुदीर्घा च सुविस्तृताम् । पुण्योदकां तीर्थवरां कावेरीं तां दृशाऽपिबन् ॥ ३५॥ तस्याः पारेऽहमद्राक्षं जम्बुकेश्वरगोपुरम् । अत्युन्नतं रम्यरूपं दर्शनादेव पापहम् ॥ ३६॥ अथावरुह्र शैलेन्द्रश‍ृङ्गन्मित्रसमन्वितः । प्राह्णे साहित्यपरिषत्सम्मेलनमुपागमम् ॥ ३७॥ बहवः कवयस्तत्र काव्यैः स्वस्वविनिर्मितैः । सभासदः सहृदयान् पण्डितान् समतोषयन् ॥ ३८॥ तत्राहमपठं ``प्रेमसायुज्यं'' नव्यकल्पनम् । गीतकाव्यं मदीयं तत्सदस्यैरनुमोदितम् ॥ ३९॥ अपराह्णे सम्मिलिता परिषद्विततार मे । विरुदं चापि ``सरससाहितीवल्लभा''ह्वयम् ॥ ४०॥ अथ प्रभाषितं तत्र नातिसंक्षेपविस्तरम् । गैर्वाण्या काव्यसौन्दर्यमर्माणि स्पृशता मया ॥ ४१॥ दिनद्वयेऽपि सदसि तत्र विख्यातपण्डिताः । दर्शनेषु च साहित्ये प्रभाषणमकुर्वत् ॥ ४२॥ द्वेधाप्यमृतभाषात्वं संस्कृतस्यावबोधयन् । पण्डितानां वाग्विलासस्तत्र सम्याग्व्यजृम्भत ॥ ४३॥ एवं संस्कृतसाहित्यपरिषद्वार्षिकोत्सवः । सरस्वतीपुण्यतीर्थस्नानं मे मनसो व्यधात् ॥ ४४॥ अथान्यस्मिन् दिने प्रातः प्रस्थितं सुहृदा सह । कर्तुं मया पुण्यतमे कावेरीस्नानतर्पणे ॥ ४५॥ कावेर्यां स्नानघट्टोऽस्ति योऽम्बामण्डपसंज्ञितः । श्रीरङ्गक्षेत्रसविधे प्रथितो भक्तसङ्कुलः ॥ ४६॥ तत्र वी वीकलस्वानमुद्गिरन्ती सुहासिनी । पुण्यतीर्थवरा देवी कावेरी वन्दिता मया ॥ ४७॥ ``नमस्ते देवि कावेरि, पुण्यस्नानं करोम्यहम् । भूयासं पापनिर्मुक्तः प्रशान्तहृदयः सदा'' ॥ ४८॥ ततर तीर्थाम्बुनि स्वच्छशीतलेऽनेकमञ्जनैः । भक्त्याऽकार्षकमहं पुण्ये कावेरीस्नानतर्पणे ॥ ४९॥ अथाहं गोपुरैस्तुङ्गैः शिलाशिल्पमनोहरैः । प्राकारैरुन्नतेर्नानाकक्ष्यावीथीभिरावृतम् ॥ ५०॥ श्रीरङ्गनाथक्षेत्रं तत् प्राविशं भक्तिनिर्भरः । नानाभक्तवरित्राणं स्मृतिह्र्मदयमाविशत् ॥ ५१॥ भक्त्युन्मादामृताम्भोधिनिमग्नहृदयान्तरः । व्यहरद्यत्र चैतन्यो विश्वं विस्मापयंश्चिरम् ॥ ५२॥ तदिदं वैष्णवं धाम विशतो हृदयं मम । जातं प्रसन्नमानन्दसम्प्लवे लीनमञ्जसा ॥ ५३॥ उपर्युत्खचितानेकसौवर्णफलकोज्वले । तत्र गर्भगृहे भान्तं महान्तं नागशायिनम् ॥ ५४॥ मन्दहासाञ्चितमुखं श्रीभूमिभ्यामुपासितम् । श्रीरङ्गनाथमद्राक्षं हर्षोत्फुल्लविलोचनः ॥ ५५॥ मयाविनम्रशीर्षेण बद्धाञ्जलिपुटेन च । पुण्यैकदृश्यो भगवान् रङ्गनाथोऽभिसंस्तुतः ॥ ५६॥ ``श्रीरङ्गनाथ, भगवन् करुणैकसिन्धो, मां पाहि दुःखशतधारविदीर्णचितम् । दिष्ट्या भवत्सविधमागतवांस्तु भूयात् सोऽयं प्रशान्तहृदयस्तव दासदासः ॥ ५७॥ अत्यन्तपावनतमे मरुदालये श्री- रङ्गे च मङ्गलतमे हरिभक्तिरङ्गे पश्यामि तुल्यरुचि भान्तमहं भवन्तं त्वय्यस्तु मे रतिरनन्तसुखस्वरूपिन् ॥ ५८॥ श्रीरङ्गनाथ, प्रणतार्तिहारिभिः सुमङ्गलैर्मुग्धतमैर्विलोचनैः । दयामयैर्मे वितराखिलप्रभो, प्रशान्तिमानन्दधनामनश्वरीम् ॥ ५९॥ ततः प्रतिनिवृत्यहमदूरे जम्बुकेश्वरम् । महाक्षेत्रं शिलशिल्पशोभितं प्राविशं मुदा ॥ ६०॥ तत्र पुण्यतमे क्षेत्रे भक्तसङ्घसमाकुले । शुद्धे गर्भगृहे गुल्फमात्नतीर्थजलाप्लुते ॥ ६१॥ निर्भान्तं लिङ्गरूपेण शङ्करं भक्तवत्सलम् । प्रणम्य प्रार्थयं चैवं भक्तिगद्गदया गिरा ॥ ६२॥ श्रीजम्बुकेश्वर, नतप्रिय, दीनबन्धो, श्रीपार्वतीहृदयवल्लभ, दिव्यमूर्ते । दासोऽस्मि देव, तव; हे भगवन् प्रसन्न - स्त्वं देहि भक्तिममलां मनसश्च शान्तिम् ॥ ६३॥ इत्यभिष्टूय तुष्टोऽहं निवृत्तो जम्बुकेश्वरात् । संप्रापं ससुहृद्वासगृहं ``मायवरं'' वरम् ॥ ६४॥ मध्याह्ने कृतकृत्यः स विजेल्वानः प्रसन्नधीः । प्रतस्थे मामुपामन्त्र्य गुरुवायुपुरं प्रति ॥ ६५॥ अथैकाको वासगृहे विश्रान्तोहं व्यचिन्तयम् । तीर्थाटनस्य पुण्यस्य प्रभावं मत्र्यजीविते ॥ ६६॥ मनसा न्यनमे साधूस्त्यक्तकौटुम्बिकव्यथान् । नित्यतीर्थाटकान् भक्तिज्ञानसंशुद्धजीवितान् ॥ ६७॥ द्वितीयखण्डः । अथ तस्मिन् दिने सन्ध्याकाले सममिलं मुदा । गुरवायुपुरादभ्यागतैस्तीर्थाटकेरहम् ॥ १॥ तत्र मित्रं कविः कृष्णनुण्णिः पत्नी च मामिका । कृष्णन्नम्पूपिरिश्चासीत् सकुटुम्बः सुहृत्तमः ॥ २॥ सुसज्जबस्साख्यमहावाहनेन समागताः । सर्वेऽपि ते व्यदृश्यन्त सोत्साहास्तुष्टमानसाः ॥ निशायां त्रिशिरःपुर्यो विश्रान्तास्तीर्थचारिणः । प्रगे ययुश्च कापेरीं श्रीरङ्गं जम्बुकेश्वरम् ॥ ३॥ एतेषां तीर्थमुख्यानां पुनर्दर्शनभाग्यतः । मनो मदीयमात्मानं धन्यधन्यमममन्यत ॥ ४॥ ततः प्रस्थाय पूर्वाह्णे कुम्भकोणं समागतः । दृष्ट्वाऽनमस्तेत्र तीर्थे कुम्भमेलास्पदं मुदा ॥ ५॥ ततश्च सारङ्गपाणिक्षेत्रं सर्वे प्रपेदिरे । शाङ्र्गपाणिं तत्र भान्तं प्रणेमुर्भक्तिपूर्वकम् ॥ ६॥ ततो निर्गत्य मध्याह्ने प्राप्तास्तञ्जापुरीं समे । यत्र भाति महाक्षेत्रं विख्यातं बृहदीश्वरम् ॥ ७॥ शिलाशिल्पाञ्चितमहागोपुरे क्षेत्रसत्तमे । पुण्ये गर्भगृहे भाति शिवलिङ्गं बृहत्तमम् ॥ ८॥ तच्च चन्द्रकलाधारि स्फुरद्दीपप्रकाशितम् । दृष्ट्वा भक्त्या प्रणम्यैवं प्रार्थयं तं महेश्वरम् ॥ ९॥ ``शम्भो महादेव, पादप्रणते भृतके मयि । निधेहि दृष्टें सदयां भायासं शान्तमानसः'' ॥ १०॥ तत्र शिलाशताकीर्णे विस्तृते बाह्रमण्डपे । शेते नन्दी कृष्णशिलाशिल्परूपो बृहद्वपुः ॥ ११॥ वीक्ष्य तं चेतनमिव प्रहर्षोत्फुल्लमानसाः । नत्रातिष्ठाम सर्वेऽपि वयं चित्रार्पिता इव ॥ १२॥ ततस्तस्मान्महाक्षेत्राद्विख्याताटुबृहदीश्वरात् । निवृत्य तदनु प्राप्ताः स्वामिशेकं मनोहरम् ॥ १३॥ आस्यायं तत्र विश्रान्ताःक्षेत्रोपान्ते वयं समे । सायमुद्धाटितं क्षेत्रे प्रविष्टास्तत्र सादरम् ॥ १४॥ यत्राऽस्ते भगवान् स्फन्दः शिलासोपानसुन्दरे । भक्तसङ्गसमाकीर्णे शैलश‍ृङ्गे समुन्नते ॥ १५॥ नानावर्णाञ्चितशिलाशिल्पैः सम्मोहनं दृशाम् । परिपूतं महाक्षेत्रं गुहस्यैतत् सुविश्रुतम् ॥ १६॥ कार्तिकेयं समानम्य स्वामिनं तं महौजसम् । मनसा प्रार्थयं चैवं बद्धाञ्जलिपुटो मुदा ॥ १७॥ ``देवसेनापते, स्वामिन्, धर्मसंस्थापक, प्रभो । प्रसीद पाददासे मय्यन्तः शान्तिं विधेहि मे ॥ १८॥ भवन्तं करुणापूर्णे मयूरवरवाहनम् । भवसन्तारकं देवं तारकान्तकामाश्रये'' ॥ १९॥ ततः प्रतिननिवृत्याहं सर्वैश्च सहयात्रिकैः । समागमे निशीथिन्याः प्रापं पुण्यं चिदम्बरम् ॥ २०॥ यत् पुराणेषु विख्यातं पुण्यक्षेत्रं पिनाकिनः । यत्र प्रतिष्ठितः साक्षान्नटराजो महेश्वरः ॥ २१॥ तस्य सन्दर्शनादेव प्रहृष्टे मम चेतसि । विख्याता नन्तनाराद्या भक्ताः सन्निधिभग्ययुः ॥ २२॥ दीर्घयात्रापरिश्रान्ता रात्रौ तीर्थाटका वयम् । प्रशान्तपावने तत्र क्षेत्रोपान्ते विशश्रमुः ॥ २३॥ प्रगे परन्द्युस्तत्क्षेत्रं तुङ्गगोपुरवप्रकम् । शिलाशिल्पसहस्राढ्यं प्राविशं भक्तिपूर्वकम् ॥ २४॥ अद्राक्षं तत्र निर्भान्तं नटराजं जगत्प्रभुम् । अपूजये भक्तिपूर्वे स्तोत्रविल्वदकैरहम् ॥ २५॥ ``चराचरात्मकं विश्वं यदीयनटनात्मकम् । वन्दे चिदम्बराधीशमाद्यं नाट्यकलागुरुम् ॥ २६॥ विचित्रपादविन्यासतालध्वनिततदिङ्मुखम् । निकुञ्चितैकपादं तं नटराजं नमाम्यहम् ॥ २७॥ भ्रूलताचालनैर्दृष्टिविलासैरङ्गहारकैः । विश्वभावान् भावयन्तं नटराजमुपास्महे ॥ २८॥ सुव्यक्तसच्चिदानन्दं दयाञ्चितदृगञ्जलम् । वन्दे दिगम्बरं देवं चिदम्बरनटेश्वरम् ॥ २९॥ यन्नाट्यशास्त्रविज्ञानाद्भरताद्या महर्षयः । नाट्याचार्याः समभवन्नटराजं तमाश्रये ॥ ३०॥ नानामुद्राञ्चितानेकविमोहनकराञ्चलम् । नृत्तश्लथजटाभारं भावयेऽहं महानटम्'' ॥ ३१॥ नीराजनं कारयित्वा कर्पूरज्योतिषा ततः । प्रसाद भस्म तत् पूतं सादरं स्वीकृतं मया ॥ ३२॥ उपदेवान् समानम्य शिलायां तत्र कल्पितम् । व्यलोकयं शिल्पशतं विस्मयानन्दसम्प्लुतः ॥ ३३॥ नाट्यशास्त्रप्रसिद्धानि मुद्राजालानि गोपुरे । अङ्गहाराश्च विविधाः समुत्कीर्णाः शिलासु ये ॥ ३४॥ चिराद्दिदृक्षितास्ते च मया साधु निरीक्षिताः । अपूर्वदर्शनात्तस्मादात्मा संप्राप निर्वृतिम् ॥ ३५॥ ततश्चिदम्बरात् प्राह्णे प्रस्थाय वयमागताः । सायं लक्ष्प्रीविलासाढ्यां प्रथितां मधुरापुरीम् ॥ ३६॥ पाण्ड्यराजस्तिरुमलनायकः ख्यातविक्रमः । तत्र यां शिल्पसम्पन्नां राजधानीमकल्पयत् ॥ ३७॥ तामवालोकयं नष्टशिष्टां विस्मितमानसः । तत्राद्राक्षं सम्भृतानि पुरावस्तुशतानि च ॥ ३८॥ शिल्परत्नानि विविधान्यद्भुतं व्यदधुः परम् । मन्त्रमण्डपमद्राक्षं राज्ञः शिल्पोपशोभितम् ॥ ३९॥ अथ सन्ध्यारागशुभन्नानाविस्तृतवीथिकाम् । विक्रेयवस्तुम्पूर्णमहापणगणान्विताम् ॥ ४०॥ उत्तुङ्गसौधनिकरदर्शनीयां जनाकुलाम् । मधुरानगरीं दृष्ट्वा हर्षे चाद्भुतमध्यगाम् ॥ ४१॥ मीनाक्षीमन्दिरोपान्ते सर्वे तीर्थाटका निशि । सुखं विश्रम्य नवतां लेभिरे विगतक्लमाः ॥ ४२॥ ततः प्रभाते प्रथमं सपत्नीकः सहानुगः । प्राविशं तद्गुहक्षेत्रं कुण्डं श्रीपरपूर्वकम् ॥ ४३॥ दृष्ट्वाऽनम्य च सेनान्यं प्रार्थयं सुसमाहितः । ``स्वामिन्, भयेभ्यस्त्रायस्व मनसः शान्तिरस्तु मे'' ॥ ४४॥ अथ नत्वा तथैवोपदेवान् शिल्पान्युद्वीक्ष्य च । मीनाक्षीमन्दिरं प्राप्य देवीं भक्त्या समानमम् ॥ ४५॥ ``मीनाक्षि, मधुरानाथे, जगदम्ब, नमोऽस्तु ते । सर्वविद्यात्मिके, देवि, प्रकाशस्व सदा हृदि'' ॥ ४६॥ ततः प्रविश्य महितं सुन्दरेश्वरमन्दिरम् । प्रणम्य प्रार्थयं भक्त्या भगवन्तं महेश्वरम्'' ॥ ४७॥ ``मीनाक्षीप्राणसर्वस्व, नमस्ते सुन्दरेश्वर । सच्चिदानन्दरूपं ते भासतां हृदये मम'' ॥ ४८॥ ततः प्रविश्य विस्तीर्णे सहस्रास्तम्भमण्डपम् । नानाशिल्पान्यद्भूतानि पुरावस्तुशतानि च ॥ ४९॥ सप्तस्वरस्तम्भजातं तत्रापि च विशेषतः । अद्राक्ष; मश्रौषमेवं स्तम्भोत्यं स्वरसञ्चयम् ॥ ५०॥ गायन्तमिव पाण्ड्यानां शिल्पवैदग्ध्यसद्यशः । निमग्नमद्भुतानन्दसङ्करे मन्मनस्तदा ॥ ५१॥ ततो निर्गत्य पुरतो गोपुरे शिल्पसुन्दरे । लग्नां दृष्टिं समाकृष्य कथञ्चित् प्रस्थिता वयम् ॥ ५२॥ दीर्घां यात्रा समारब्धा पुण्यं रामेश्वरं प्रति । प्राहुणे प्रहृष्टहृदयैरस्माभिस्तीर्थचारिभिः ॥ ५३॥ अनेकान् ग्रामनगरान् विविधान् जनसञ्चयान् । जावासविहीनांश्च प्रदेशानतिविस्तृतान् ॥ ५४॥ दर्शेदर्शमनाख्येयनानाभावाञ्चितान्तरः । नाविदं दीर्घयात्रोत्थं क्लेशजातमिहाण्वपि ॥ ५५॥ समुद्रोपरि सा वह्निशकटेनाल्पवेगिना । यात्रा विचित्रमानन्दमतनोन्मानसे मम ॥ ५६॥ सन्ध्यातपसमारक्तचेलाञ्चितकलेवराः । ननृतुर्वीचिकास्तत्र हहन्त्यो मानसं मम ॥ ५७॥ नानाताललयोन्मेषा तासां सा गानवैखरी । व्यासिञ्चिदमृतासारैर्मदीयानन्दवल्लरीम् ॥ ५८॥ एवमानन्दनिष्यन्दस्नानपूतहृदन्तराः । सायङ्काले वयं प्राप्ताः पुण्यं रामेश्वरं समे ॥ ५९॥ क्षेत्रोपान्ते निशां नीत्वा प्रभाते शान्तमानसाः । समुद्रतीरं संप्राप्ता नानाभक्तजनाकुलम् ॥ ६०॥ तत्रापश्याम विविधवेषभाषासमन्वितान् । नानादेशागतान् पुण्यतीर्थस्नानाय सङ्गतान् ॥ ६१॥ बालारुणकरामृष्टनृत्यद्वीचीकलस्वनम् । भक्तसङ्घैरनुष्ठीयमानस्नानक्रियाविधिम् ॥ ६२॥ तीरोपान्तसमुद्रं तं पुण्यतीर्थमनुत्तमम् । आलोक्यभूविम वयमानन्दामग्नचेतसः ॥ ६३॥ कोटितीर्थे समुद्रेऽत्र स्नानं कृत्वा यथाविधि । क्षेत्रपिण्डं व्यतनुम श्रद्धाभक्तिसमन्विताः ॥ ६४॥ अथ पापोपशान्त्यर्थे पितृप्रीत्यर्थमेव च । सपत्नीकः समुद्रेऽत्र पुनः स्नानं समाचरम् ॥ ६५॥ पुरोहितेन निर्दिष्टौ दूरतोऽत्र महाम्बुधौ । धनुष्कोटी रामसेतुञ्चापि सङ्कल्प्य वन्दितौ ॥ ६६॥ हन्त! प्रकृतिविक्षोभाद्दुर्दिष्टप्रारावोदितात् । नातिदूरे भूतकले समुद्राप्लाविताविमौ ॥ ६७॥ पुनर्दानादिकं कृत्वा पुण्यतीर्थेषु भूरिषु । उपरामेश्वरक्षेत्रमभिषेकोऽप्यनुष्ठितः ॥ ६८॥ ततो रामेश्वरक्षेत्रं नानाशिल्पोपशोभितम् । तुङ्गगोपुरवप्राढ्यमुपदेवैरधिष्ठितम् ॥ ६९॥ प्रविश्यान्तर्मया दृष्टं सीतारामप्रतिष्ठितम् । शिवलिङ्गं महापुण्यं दिव्यचैतन्यभास्वरम् ॥ ७०॥ कृताञ्जलिपुटो भक्त्या मुकुलीभूतलोचनः । प्रणम्यचास्तौषमेवं महादेवं जगत्पतिम् ॥ ७१॥ नमः शिवायः भगवन्, महादेव, महेश्वर । चन्द्रशेखर, विश्वात्मन् दिष्ट्या दृष्टो भवान्मया ॥ ७२॥ सर्वप्रायश्चित्तमस्तु प्रणामोऽयं भवत्पदे । प्रभो, प्रतिगृहाणामुं तथैवानुगृहाण माम् ॥ ७३॥ यथा दुरितजातं मे झटित्येव विनश्यति । सहस्राभानावुदिते गाढमन्धं तमो यथा'' ॥ ७४॥ कर्पूरनीराजनादि कारयित्वा प्रसन्नधीः । विभूत्यादिकमादाय प्रसादं निर्वतोऽभवम् ॥ ७५॥ अथोपदेवाननमं तत्रापि च विशेषतः । सीतारामौ धर्ममूर्ती लक्ष्मणो भ्रातृदैवतः ॥ ७६॥ हनूमान् स्वामिभक्तश्च महावीरो महाबलः । भारतस्यादर्शभूता इमे समाभिवान्दिताः ॥ ७७॥ प्रसार्य भावनापक्षं मन्मनोविहगस्तदा । आदिकाव्यस्यान्तरिक्षे विजहार विश‍ृङ्खलम् ॥ ७८॥ ततो निर्गत्य पुरतो विस्तृते बाह्रमण्डपे । अपश्यमद्भुतानन्दनिष्पन्दीकृतलोचनः ॥ ७९॥ मनोहरं शिलाशिल्पं हिमाद्रिशिखरोपमम् । श्वेतं महोक्षमारम्यवर्णशिल्पकलाञ्चितम् ॥ ८०॥ ककुद्मन्तं तीक्ष्णश‍ृङ्गं धीरोद्धतविलोचनम् । शयानं पीवराकारं जीवन्तमिव नन्दिनम् ॥ ८१॥ प्रदक्षिणीकृत्य भक्तिपूर्वे तं शम्भुवाहनम् । कृतार्थः सन्निवृत्तोऽहं महाक्षेत्रात् प्रसन्नधीः ॥ ८२॥ तृतीयखण्डः । तीर्थयात्रामुख्यलक्ष्यं साधयित्वा प्रहर्षिताः । कन्याकुमारीमुद्दिश्य ततः संप्रस्थिता वयम् ॥ १॥ आपूर्वाह्णादानिशं सा दीर्घा यात्रा प्रवर्तिता । प्रायस्तीर्थाटकास्तत्र बभूवुः श्रान्तमानसाः ॥ २॥ विचित्रवैविध्यजुषां भूभागानां निरीक्षणात् । अन्वभूवं महानन्दं व्यस्मरं श्रान्तिवैधुरीम् ॥ ३॥ मार्गमध्ये तिरिच्चन्तूरिति प्रख्यातमुत्तमम् । कार्तिकयमहाक्षेत्रं दृष्टं सायं जनाकुलम् ॥ ४॥ पुनरुन्मेषमापन्नाः सर्वेऽपि सहयात्रिकाः । स्वामिनं गुहमानम्य भक्त्या संप्रार्थितं मया ॥ ५॥ ``शिवशक्त्योरेकरूपं भगवंस्त्वां नमाम्यहम् । प्रसीद मयि दासेऽस्मिन् मनःशान्तिं विधेहि मे'' ॥ ६॥ उत्तुङ्गनानावप्राढ्यं सशिल्पोन्नगोपुरम् । दर्शे दर्शे महाक्षेत्रं सन्तुष्टास्तीर्थचारिणः ॥ ७॥ ततः प्रस्थाय सर्वेपि नवत्वमुपलम्भिताः । नक्तं द्वितीययामे तु प्राप्ताः कन्याकुमारिकाम् ॥ ८॥ तत्रोविताः पुरे नव्ये विवेकानन्दसंज्ञिते । अन्येद्युरुषसि प्राप्ता वयमब्धितटं मुदा ॥ ९॥ सूर्योदयदिदृक्षाऽसीदुद्वेका हृदयेषु नः । तदा मेघावृतं जातं हन्तः प्राचीदिशामुखम् ॥ १०॥ तथापि वीचीसंक्षोभिसमुद्रत्रयमेलनम् । निरीक्ष्य हर्षोन्मत्ताऽभूच्चेतना सर्वथैव नः ॥ ११॥ तुङ्गैस्तरङ्गसङ्घातैः समाक्रान्ना पदे पदे । समुद्रवेला तत्रास्मद्विहारास्पदतां गता ॥ १२॥ केचिदागुल्फपातिन्या वीच्या लीलां वितेनिरे । अन्ये चाजानुपातिन्या चिक्रिडुस्तुष्टमानसाः ॥ १३॥ परे दूरे स्थितास्तुङ्गतरङ्गाघातचातुरीम् । ददृशुः सर्व एवासन्नानन्दोन्मत्तचेतसः ॥ १४॥ इतस्ततः समुद्रेऽत्र यन्त्रनौकाश्चकाशिरे । विकारतरले चित्ते सङ्कल्पा विविधा इव ॥ १५॥ समुद्रेऽनतिदूरे सा दृष्टातिमहती शिला । अत्युग्रवीचिकाघाते चिरारब्धेपि निश्चला ॥ १६॥ स्वामी विवेकानन्दोऽत्र स्थित्वा पूर्वं दिनत्रयम् । ध्यानमग्नोऽभवद्यत्र निर्मितं मन्दिरोत्तमम् ॥ १७॥ शिल्पवैदग्ध्यनिष्पन्नजीवचैतन्यभासुरा । महती प्रतिमा तत्रस्थापिता तस्य योगिनः ॥ १८॥ तस्याश्चाभिमुखं तत्र प्रतिच्छन्दद्वयं स्थितम् । श्रीरामकृष्णदेवस्य शारदामातुरेव च ॥ १९॥ प्रशान्तं पावनं तत्र कलितं ध्यानमन्दिरम् । पुरा यत्र स्थितोऽवापमवाच्यामात्मनिर्वृतिम् ॥ २०॥ कन्याकुमारीपादब्जचिह्नं यत्रावभासते । तत् स्थानं शिल्पसुभगं कृत्वाऽत्र परिरक्षितम् ॥ २१॥ एतत्सर्वं यथाध्यक्षं चकाशे स्मृतिमण्डले । मनसाऽनम्यचास्तौषं विवेकानन्दयोगिनम् ॥ २२॥ ``योगत्रयविशुद्धात्मन्नापादानशतानि ते । गायन्ति त्यत्पदोपान्ते नम्रा वारिधिवीचयः ॥ २३॥ समुद्रत्रयसंयोगस्तीर्थतीर्थीभवत्ययम् । वतस्त्वत्पाद संस्पृष्टां शिलां स्पृशति वीचिभिः ॥ २४॥ सन्देशं भारताम्बाया रत्नमध्यात्मदर्शनम् । चिरात्कालिकमालिन्यग्रस्तमस्तप्रभं स्थितम् ॥ २५॥ पुनः श्रीरामकृष्णेन शाणघर्षणशोधितम् । विश्वप्रेमार्द्रचित्तेन धीरेण भवता स्ययम् ॥ २६॥ चक्रवालान्तविलसत्प्रभामण्डलशोभितम् । कृत्वा लोकायोपहतं नमस्ते विश्ववन्धवे ॥ २७॥ त्वां शङ्करस्यावतारं महायोगिन्, नमाम्यहम् । दययाऽनुगृहाणामुं मनसः शान्तिरस्तु मे ॥ २८॥ समुद्रदृश्यादाकृष्य सर्वे दृष्टिं कथञ्चन । निवृत्य तीरादम्भोधे देवीक्षेत्रे प्रपेदिरे ॥ २९॥ तत्र गर्भगृहे भान्तीं नानालङ्कारशोभिताम् । देवीं कन्याकुमारीं तां दृष्ट्वा मुमुदिरे समे ॥ ३०॥ सौन्दर्यसारसर्वस्वमेकत्राहितमद्भुतम् । देवीस्वरूपं दृष्ट्वा तत्सर्वे विस्मितमानसाः ॥ ३१॥ बद्धाञ्जलिपुटा नम्राः स्थिताश्चित्रार्पिता इव । अनावमहमेवं तामानन्दामग्नमानसः ॥ ३२॥ कलाविद्यात्मिके देवि, सच्चिदानन्दविग्रहे । कन्याकुमारी भवती नित्यं मनसि भासताम् ॥ ३३॥ सर्वङ्कामदुधे, देवि, प्रसीद प्रणते मयि । त्वद्भक्तिपरमानन्दे मग्नं भवतु जीवितम् ॥ ३४॥ अथ संप्रस्यिताः सर्वे स्यानन्दूरपुरं प्रति । मध्येमार्गे क्षेत्रमुख्यं शुचीन्द्रं संप्रपेदिरे ॥ ३५॥ शुद्धिस्थानं महेन्द्रस्य पुराणप्रथितं महम् । क्षेत्रमेतदतो लेभे शुचीन्द्रव्यपदेश्यताम् ॥ ३६॥ सत्यासत्यपरीक्षाऽभूद्यत्र पूर्वे महाद्भुता । तत्फलं लभ्यते हस्ते तप्ताज्यपरिमज्जिते ॥ ३७॥ शिलाशिल्पाञ्चितोत्तुङ्गमहागोपुरसुन्दरम् । अत्युच्चवप्रवलयमुपदेवैरधिष्ठितम् ॥ ३८॥ क्षेत्रमेतत्प्रविश्याहं महादेवमुमापतिम् । मध्याह्नपूजावसाने व्यनमं भक्तिपूर्वकम् ॥ ३९॥ ``स्वामिन्, महादेवशम्भो, प्रसीद प्रणते मयि । येनाहमाप्नुयां शान्तिं मानसीमनपायिनीम् ॥ ४०॥ पुष्पाञ्जलिं कारयित्वा प्रसादं परिगृह्र च । सन्तुष्टचित्तः प्रतिष्ठं सहान्यैस्तीर्थचारिभिः ॥ ४१॥ अपराह्णे च संप्राप्तं सुन्दरं जनसङ्कुलम् । तुङ्गलौघणाकीर्णं स्यानन्दूरं पुरोत्तमम् ॥ ४२॥ श्रीपद्मनाभक्षेत्रस्य पुरतस्तुङ्गगोपुरम् । पद्मतीर्थे च निकषा विश्रामः साधु सेवितः ॥ ४३॥ सायमुद्धाटिते क्षेत्रे प्राविशं तत्र सादरम् । वप्रान्तः श्रीबलिगृहं शिलाशिल्पोपशोभितम् ॥ ४४॥ दर्शं दर्शमहं भक्त्या प्रादक्षिण्यं समाचरम् । अपश्यं बृहतः कांस्यशरावान् शिल्पसुन्दरान् ॥ ४५॥ दृष्टो बलिगृहस्तम्भे समुत्कीर्णो महत्तमः । हनुमान् नवनीतं यत्तस्य पादे समर्पितम् ॥ ४६॥ पिपीलिकादूषितं वा द्रुतं वा न भविष्यति । भगवानाञ्जनेयः स वन्दितो नन्दता मया ॥ ४७॥ ``रामनामामृतास्वादमुकुलीभूतलोचनम् । आनन्दाश्रुसमासिक्तगण्डं वातात्मजं भजे ॥ ४८॥ यद्वलं रामनामकं मनोवाक्वायकर्मसु । भक्तोत्तमं सर्वशक्तं मारुतिं प्रणमाम्यहम्'' ॥ ४९॥ अथ चैकशिलामात्र निर्मित परमद्भुतम् । अद्राक्षं मण्डपं तत्र नानाशिल्पकलाञ्चितम् ॥ ५०॥ पुरतः शिल्पसुभगमुखमण्डपशोभितम् । दृष्ट्वा गर्भगृहं हृष्टो दिदृक्षुदेवमास्थितः ॥ ५१॥ श्रीपद्मनाभो भगवानुदात्तमधुराकृतिः । अनन्तशयने शेते प्रसन्नवदनाम्बुजः ॥ ५२॥ शिरो मध्यं तथा पादौ कमाद्वारत्रयेण हि । वीक्षितुं शक्यमस्माभिस्तादृग्वैष्णवविग्रहम् ॥ ५३॥ महत्तमं वीक्ष्य हर्षविस्मयस्तिमितेक्षणः । अस्तौषं तं पद्मनाभमहं सुविहिताञ्जलिः ॥ ५४॥ स्वामिन्ननन्तवनदृष्टमरुत्पुरेश, श्रीविल्वमङ्गलसमर्चितचारुमूर्ते । श्रीपद्मनाभ, भगवन्, करुणैकसिन्धो, त्वय्यस्तु मे रतिरनन्तपुराधिवासिन्! ॥ ५५॥ अनन्तपद्मनाभ, त्वत्पादपद्मे पताम्यहम् । कृपया देहि भगवन्, मनःशान्तिमनुत्तमाम् ॥ ५६॥ अथ तीर्थाटकाः सर्वे सायं सन्तुष्टमानसाः । उद्दिश्य मारुतागारं कृतकृत्याः प्रतस्थिरे ॥ ५७॥ रात्रौ तृतीययामे तु प्राप्ता गुरुममरुत्पुरीम् । परस्परमुपामन्त्र्य सर्व जग्मुर्यथागतम् ॥ ५८॥ स्नात्वा चाहं सपत्नीकः पुण्यं तैलाभिषेचनम् । शङ्खाभिषेकं चाद्राक्षं हरेर्गुरुपुरीपतेः ॥ ५९॥ नैवेद्यं नवनीतेन मधुरैः कादलैरपि । सितापुञ्जैश्च निर्वृत्तमास्वाद्य प्रीतमुत्थितम् ॥ ६०॥ गृहीतकैशोरवेषं पूर्णं ब्रह्म सनातनम् । कृष्णं मरुत्पुराधीशं दृष्ट्वाऽनन्दाश्रुसम्प्लुतः ॥ ६१॥ गद्गदारुद्धकण्ठश्च प्रणम्य विहिताञ्जलिः । न्यवेदयं प्रार्थयं च भगवन्तं दयानिधिम् ॥ ६२॥ ``गुरुवायुपुराधीश भवत्करुणया मया । अविघ्ना तीर्थयात्रेयं सुखं परिसमापिता ॥ ६३॥ बहूनां पुण्यतीर्थानां विभूतीनां तव प्रभो । निषेवणात् प्रशान्तात्मा सत्सङ्गाश्च प्रसन्नधीः ॥ ६४॥ प्रत्यागतोऽस्मि भगवत्पादमूलमुपासितुम् । मज्जीवितमिदं भूयद्भवच्चरणसेवनम् ॥ ६५॥ शुकनारदमुख्याश्च ये भागवतसत्तमाः । नित्यतीर्थाटकाः सिद्धा भवद्भक्ता गुरूत्तमाः ॥ ६६॥ तद्दर्शितेन मार्गेण मन्मनस्त्वत्कृपाबलात् । करोतु नित्यमध्यात्मतीर्थाटनमतन्द्रितम्'' ॥ ६७॥ अथ च स्वगृहं प्राप्तः प्राक् सूर्योदयकालतः । किरातमूर्तिं नत्वाहं प्रार्थयं भक्तिपूर्वकम् ॥ ६८॥ कामक्रोधादिदुर्जन्तून् नाशयन् निशितैः शरैः । किरातमूर्ते, स्वान्तं मे शान्तं कुरु तपोवनम् ॥ ६९॥ इति श्रीवासुदेवन् एलयथेन विरचितं तीर्थाटनं सम्पूर्णम् ।
% Text title            : Tirthatanam
% File name             : tIrthATanam.itx
% itxtitle              : tIrthATanam (vAsudevan elayathena virachitam)
% engtitle              : tIrthATanam
% Category              : misc, vAsudevanElayath
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : From Bhaktitarangini by Prof. P.C. Vasudevan Elayath
% Indexextra            : (Thesis, Text/)
% Latest update         : December 25, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org