स्पिनोजादर्शनम्
लेखकः - नन्दप्रदीप्तकुमारः
देशः कालः परिचयश्च-
महानुभावस्य बुद्धिवादिनो दार्शनिक-स्पिनोजा-महाभागस्य जन्म १६३२ ख्रीष्टाब्दे नभेम्बरमासस्य चतुर्विंशतिदिनांके हलाण्डदेशस्य ``एमस्टरडम'' इत्यस्मिन् स्थाने बभूव । अस्य पित्रोः परिचयः नोपलभ्यते । षष्ठे वयसि तस्मिन् मातृवियोगो द्वाविंशतितमे पितृवियोगश्च संजातः । स्पिनोजा Amsterdam इत्यत्र इहूदिविद्यालये अधीतवान् । इहूदिधर्मे साहित्ये च तस्य परमा निष्ठा आसीत् । न केवलं इहूदीभाषायामपितु लाटिन्-पर्त्तुगीज्-फरासी-इटाली-डच् प्रभृतिषु भाषासु तस्य पारदर्शिता आसीत् । असौ अद्वैतवादी दार्शनिकः उत्तमचरित्रवान् तथा ऋषितुल्य आसीत् । असौ महात्मा १६७७ ख्रीष्टाब्दे फेब्रूयारीमासस्य एकविंशतितमे दिवसे क्षयरोगेणाक्रान्तः सन् (४५)पञ्चचत्वारिंशत्तमे वयसि पञ्चत्वं प्राप्तवान् ।
कृतयः-
समयानुसारं षट्पुस्तकानि तेन विलिखितानि । तानि तु वक्षमाणानि-
1 - Cogitata .netaphysicsa
2 - Tractatus Theogico Politicus
3 - Ethica (Ethics)
4 - Tractus de Intellectus Emendatome Epistolac
5 - Correspondence
6 - Short Treatise(Treatises concerning God and Man)
स्पिनोजीयज्ञानमीमांसा-
अस्य दार्शनिकीपद्धतिः देकार्तदर्शनवत् प्रागानुभाविकी अवरोहात्मिका च आसीत् । अस्य दार्शनिकचिन्ताधारा ``ज्यामितिकपद्धति'' नाम्ना परिचिता दृश्यते । अस्मिन् विश्वे ज्ञानमीमांसाप्रसंगे सर्वैः विज्ञानवादिदार्शनिकैः व्यावहारिकपारमार्थिकरूपेण भेदः अंगीकृतः । तत्र सविकल्पकबुद्धेर्ज्ञानं व्यावहारिकं निर्विकल्पकानुभूतेर्ज्ञानं च पारमार्थिकमिति । व्यावहारिकं यज्ज्ञानं तत्तु भ्रमप्रमादादियुक्तं अज्ञानसम्बलितम् मित्याज्ञानम् । पारमार्थिकसाक्षात्कारेण यथार्थज्ञानं समुदेति । स्पिनोजामतेन ज्ञानं त्रिविधम् । १- कल्पनाजन्यम् २-बौद्धिकम् ३-प्रज्ञाजन्यञ्चेति । तत्राद्यं कल्पनाजन्यं तु इन्द्रियप्रत्यक्षैः विश्लेषणात्मकसविकल्पकबुद्ध्या हि जायते । पञ्चज्ञानेन्द्रियैः लब्धं बाह्यप्रत्यक्षलब्धं मनसा च प्राप्तं हर्षशोकक्रोधमोहात्मकमान्तरिक्षप्रत्यक्षं तु अस्मिन् ज्ञानेस्न्तर्भुक्तम् । द्वितीयं बौद्धिकं तर्कजन्यम् । अनेन वस्तुनिहितसाधारणधर्माणामाधारेण अवरोहक्रमेण सिद्धान्तः सम्भवति । इदं बौद्धिकज्ञानममूर्त्तमनुमानाश्रयि च । अनेन बौद्धिकज्ञानेन न केवलं वस्तूनां बाह्यस्वरूपकं ज्ञानं जन्यते अपि तु तेषां पारस्परिकं सम्बन्धविषयकं ज्ञानमपि सम्भवति । अन्तिमं प्रज्ञाजन्यज्ञानमपरोक्षानुभूतिर्निर्विकल्पकमिति वोच्यते । बौद्धिकज्ञानापेक्षया एतदुच्चतरमिति कथ्यते ।
बन्धमुक्तिविचारः-
स्पिनोजादर्शने बन्धमुक्तिविचारः स्वतन्त्रः । तन्नये अन्धकारात् आलोकप्राप्तिः, पराधीनतायाः स्वाधीनतालाभः, बन्धनान्मुक्तिरिति प्रसंगे विशेषो विमर्शः प्रतिफलितः । सर्वेषु वस्तुषु स्वस्य रक्षणप्रवृतिः वर्तते । यद्वशात् स स्वस्य स्थितौ तिष्ठति । सर्वेषु जीवमात्रेषु प्राणशक्तिर्वर्त्तमाना । इयं शक्तिर्बाह्यकारणात् नियन्त्रिता । तत्र स्पिनोजादर्शने भारतीयदर्शनवत् ज्ञानान्मुक्तिः अज्ञानाद् बन्ध इति स्वीक्रियते । भावनावशाद् हि अनित्यवस्तु प्रति अस्माकमनुराग उत्पद्यते । अनया भावनया हि भयद्वेषजुगुप्सादीनामुत्पतिर्जायते । एषा भावना सुखदुःखकामभेदेन त्रिधा विभक्ता । सुखेन कदाचित् पूर्णताप्राप्तिः, दुखेन शक्तिह्रासः, कामेन च वुभुक्षा जायते । मनसः निष्क्रियपरतन्त्रपराधीनवस्थायां बन्धः तथा तस्य स्वतन्त्रसक्रियस्वाधीनावस्थायां च मुक्तिर्जायते । बुद्धिमतो जनस्य कार्याणि आन्तरिकशक्त्या एव नियन्त्रितानि भवन्ति न तु बाह्यशक्त्या । बुद्ध्या नियन्त्रितं जीवनं सक्रियं स्वाधीनं मुक्तञ्चेति स्पिनोजादर्शनस्य सिद्धान्तः । बुद्धिजन्यज्ञानेन स्वस्य तात्विकसत्तायाः सुरक्षापूर्वकं स्वभावविकाशनेन परमपुरुषार्थसिद्धिः स्वस्मिन् परमात्मसत्तानुभूतिश्च जायते । ईश्वर एव स्पष्टप्रत्ययः । मानव एवम्भूतस्य परमार्थस्थिते परिणतिरिति । आध्यात्मिकजीवनस्य लक्ष्यः परमेश्वरः । बौद्धिकजीवनयापनेन सक्रियभावावेगेन च मनुष्यः स्वस्मिन् ईश्वरसत्तामनुभवति । एवम्भूत आत्मोपलब्धिर्मुक्तिरिति संक्षेपः स्पिनोजाराद्धान्तः संकलितः ।
--- लेखकः - नन्दप्रदीप्तकुमारः
श्रीजगन्नाथसंस्कृतविश्वविद्यालयः पुरी
Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com