श्रीअनन्तानन्दाचार्यप्रणीतः सिद्धान्तदीपकः
साकेताधीश्वरः श्रीमज्जानाकीवल्लभो विभुः ।
अव्याच्छाश्वतं रामो भक्ताभीष्टप्रदो हरिः ॥ १॥
प्रपन्नानां गतिं ह्येकां जनसन्तारणोत्सुकाम् ।
वात्सल्यरसपूर्णाङ्गीं रामकान्तां सदा भजे ॥ २॥
मारुतिं वीरवज्राङ्गं भक्तरक्षणदीक्षितम् ।
हनूमन्तं सदा वन्दे राममन्त्रप्रवर्त्तकम् ॥ ३॥
रक्षकं श्रुतिशास्त्राणां यमदुःखस्य भक्षकम् ।
तक्षकं म्लेच्छयूथानां रामानन्दं समाश्रये ॥ ४॥
सीतानाथसमारम्भां श्रीबोधायनमध्यमाम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ ५॥
धर्ममार्गच्युता मूर्खा अज्ञानध्वान्तपीडिताः ।
प्राप्नुवन्त्वचिरान्मार्गं लब्ध्वा सिद्धान्तदीपकम् ॥ ६॥
आनन्दभाष्यकार श्रीरामानन्दजगद्गुरोः ।
सिद्धान्तो वैदिको मान्यो विशिष्टाद्वैतनामकः ॥ ७॥
शास्त्रश्रुतेश्च सत्सङ्गादात्मप्रबोधनादपि ।
स्वभावदूषिता लोका न शुध्यन्ति कदाचन ॥ ८॥
प्रीतिर्नैसर्गिकी कार्या ह्युत्तमश्लोकवल्लभे ।
विषयासक्तजीवानां नानुरक्तिः कदाचन ॥ ९॥
पूरयेदष्टगन्धेन सिञ्चयेत् पुष्पवारिणा ।
खलवदुग्रगन्धं च पलाण्डुर्नैव मुञ्चति ॥ १०॥
लौकिकीनां हि वृत्तीनां दैहिकीनां च सिद्धये ।
उदासीनेन चित्तेनेतरेषामल्पसङ्गतिः ॥ ११॥
स्वाध्यायव्रतसत्तीर्थदानयज्ञतपांसि हि ।
विषयातुरजीवानां कुर्वन्त्यात्मविशोधनम् ॥ १२॥
किन्त्वात्मशोधने ह्येते न स्वतन्त्राः कदाचन ।
भगवत्कृपया युक्ताः शक्ताः स्युरात्मशुद्धये ॥ १३॥
निगमागमसारज्ञा भक्ताः श्रीरामनिर्भराः ।
शरणागतिमेवैकां गृह्णन्त्यात्मप्रसादिनीम् ॥ १४॥
सकृदेव प्रपन्नाय कृता श्रीरामयाचना ।
सर्वाभयविधात्री स्यात् सत्यं श्रीमुखभाषणम् ॥ १५॥
ईश्वरप्रणिधानाच्च भगवद्धर्मपालनात् ।
आचार्यसंश्रयाच्चैव जीवो बन्धाद्विमुच्यते ॥ १६॥
भगवद्धर्मतत्त्वज्ञाः पञ्चसंस्कारसंस्कृताः ।
प्रपन्ना निर्भरा रामे वैष्णवा भुवि दुर्लभाः ॥ १७॥
रामात् परतरं तत्त्वं श्रुतिसिद्धान्तगोचरम् ।
तत्त्वज्ञा नैव पश्यन्ति तमेव शश्वदाश्रयेत् ॥ १८॥
इदं हि सर्वशास्त्राणां सारभूतं रहस्यकम् ।
सर्वान्तर्यामिणं रामं ज्ञात्वा सेवेत शुद्धधीः ॥ १९॥
भगवद्भक्तिहीनानां द्वेषिणां च गुरोः सताम् ।
न श्रोतव्यं न मन्तवयं वाक्यं भक्तिविवर्जितम् ॥ २०॥
ममताशून्यचेतस्कः पद्मपत्रमिवाम्भसा ।
प्रारब्धभोगपर्यन्तं देहकार्याणि साधयेत् ॥ २१॥
कायेन वाचा मनसा धनेन च जनेन च ।
रामसेवा सदा कार्या भवपाशविमोचिनी ॥ २२॥
वात्सल्याज्जानकीदेव्याः साधुसद्गुरुसेवनात् ।
शश्वच्छ्रीरामचन्द्रो हि कृपापूर्णो भवेज्जने ॥ २३॥
अधिष्ठात्रीं हि लोकानां सर्वशक्तिशिरोमणिम् ।
ज्ञात्वा सीतां महादेवीं नान्यां काञ्चिद् भजेद् बुधः ॥ २४॥
राम एव परं ब्रह्म तत्समोऽभ्यधिकश्च कः ।
लौकिके वैदिके ध्येयः पूज्यश्च स हि कर्मणि ॥ २५॥
भगवच्छक्तिसम्पन्ना ससुरासुरमानवाः ।
तेन त्यक्तेन भुञ्जीथा यत्किञ्च भुवने सदा ॥ २६॥
ज्ञानयोगात् क्रियायोगाद्भक्तियोगाच्च सर्वथा ।
दैन्यादात्मार्पणं श्रेष्ठं प्रोक्तं श्रीरामतोषकम् ॥ २७॥
श्रवणद्वारमित्याहुर्भगवत्तत्त्वबोधकम् ।
उत्तमश्लोकवीर्याणि नामानि शृणुयात्तत्तः ॥ २८॥
प्रिया भागवता येषां तेषां किञ्चिन्न दुर्लभम् ।
वशीभूतो हरिर्येषां हृदयाब्जान्न सर्पति ॥ २९॥
देशान् समाश्रयेत् पुण्यान् भगवद्भक्तिवर्धकान् ।
हरेरर्चाश्रिताँश्चैव साधुभिः सेविताञ्छुभान् ॥ ३०॥
अर्चयेत् परया भक्त्या राममूर्तिं मनोहराम् ।
ससीतां सानुजाश्चैव सपार्षदां च सायुधाम् ॥ ३१॥
भगवच्छेषनिर्माल्यं नैवेद्यं चरणोदकम् ।
दुर्लभं ब्रह्मरुद्राद्यैरुपास्यं भक्तिवर्धकम् ॥ ३२॥
सेवनीयं सदा विज्ञैर्वैष्णवै रामवल्लभैः ।
साधुसद्गुरुपादाब्जतीर्थं परमपावनम् ॥ ३३॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैर्भक्तिपरायणैः ।
स्त्रिया सहैव कर्त्तव्यं सदा श्रीरामपूजनम् ॥ ३४॥
प्रतिबन्धो न विद्येत हरेराधने क्वचित् ।
सर्वपूज्यः सदा पूज्यो रामो भुवनपावनः ॥ ३५॥
सूतके मृतके चापि न त्याज्यं रामपूजनम् ।
दीक्षितेन विशेषेण चोर्ध्वपुण्ड्रादिकं क्वचित् ॥ ३६॥
आत्मरूपं सदा निन्त्यं सच्चिदानन्दरूपकम् ।
सेवासुखप्रदं शश्वद्रामाधीनं निरामयम् ॥ ३७॥
साकेतनायको रामो जगतः कारणं परम् ।
क्रियाः सांसारिकाः सर्वास्तदधीना हि निश्चिताः ॥ ३८॥
देहान्ते चिन्मयं रूपं श्रीरामस्य परात्परम् ।
ध्यात्वा रसनया जल्पन् रामनामैव मोक्षदम् ॥ ३९॥
प्राकृतं देहमुत्सृज्य भित्त्वा भानोश्च मण्डलम् ।
गत्वा श्रीरामसान्निध्यं प्राप्नुयाद्धि कृतार्थताम् ॥ ४०॥
मायातीते महादिव्ये साकेते रामवल्लभे ।
नित्या स्थितिः सदा भाव्या स्वात्मनो योगिदुर्लभा ॥ ४१॥
जनानां भ्रान्तमार्गाणामज्ञानध्वान्तशान्तये ।
श्रुतिशास्त्रगुहाविष्टतत्त्वरत्नप्रकाशकः ॥ ४२॥
सिद्धान्तदीपकश्चायमनन्तानन्ददीपितः ।
भूयाद्भक्तजनानन्ददायकस्तत्त्वदीप्तये ॥ ४३॥
इति श्रीअनन्तानन्दाचार्यप्रणीतः सिद्धान्तदीपकः सम्पूर्णः ।
Encoded and proofread by Mrityunjay Pandey