श्रीशुद्धाद्वैतब्रह्मविद्याधिगमप्रकारमीमांसा

श्रीशुद्धाद्वैतब्रह्मविद्याधिगमप्रकारमीमांसा

परहंसं चिन्त्यमानं करचरणाद्यङ्गरहितमपि रम्यम् । सञ्चित्सुखस्वरूपं ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ १॥ तत्र परहंसो द्विविधः, विद्वद्विविदिषुभेदात् । तल्लक्षणं तु श्रीमद्विद्यारण्यविरचितजीवन्मुक्तिविवेके स्पष्टमुपलभ्यते । तत्र विविदिषोर्विद्याग्रहणप्रकारः कथ्यते । तथा हि-नित्यानित्यवस्तुविवेकादिसाधनचतुष्टयसम्पन्नः ब्रह्मनिष्ठं सद्गुरं प्रपद्य प्रार्थनापूर्वकं श्रवणं कुर्यात् । प्रार्थनाप्रकारस्तु श्रीमच्छङ्करभगवत्पादाचार्यकृतविवेकचूडामणावनुसन्धेयः । तथा च श्रुतिः-- ``परीक्ष्य लोकान् कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्'' इति । अत्र ब्रह्मनिष्ठपदेन संन्यास्येव विवक्षितो नेतरः, इतरेषां आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तया इत्युक्तरीत्या सार्वदिकविचारादिरूपब्रह्मनिष्ठाया असम्भवात् । अत एव श्रीमच्छङ्करभगवत्पादैः मुण्डकोपनिषद्विवरणे, ``ब्रह्मनिष्ठं हित्वा सर्वाणि कर्माणि केवले अद्वये ब्रह्मणि निष्ठा यस्य सोऽयं ब्रह्मनिष्ठः'' इति, ``न हि कर्मिणो ब्रह्मनिष्ठता सम्भवति, कर्मात्मज्ञानयोर्विरोधात्'' इति चाभ्यधायि । न च संन्यासिनोऽपि ``न व्याख्यानपरो भवेत्'' इत्याद्यध्यापननिषेधश्रवणाल्लोके सद्गरुर्दत्तजलाञ्जलिः स्यादिति वाच्यम्; सत्कारमानपूजाभिक्षाद्युद्देश्यकाध्यापनपरत्वात्तादृशनिषेधस्य । अत एव मनुः ``नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित्'' इति भिक्षोद्देश्यकानुशासनादीन्येव निषेधति । अत एव, ``तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् । एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः ॥'' ``मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥'' इत्यादिवाक्यानामवैयर्थ्यम् । अत एव च कलौ लुप्तयतिधर्मरक्षणबद्धकङ्कणश्रीमच्छङ्करभगवत्पादान् प्रतिमोहसन्तमसवासरनाथांस्तत्र तत्र विनिवेश्य विनेयान् । पालनाय परतत्त्वसरण्या मामुपैष्यसि ततः कृतकृत्यः ॥ इति विश्वेश्वराज्ञापि नानर्थकपदभाग्भवति ॥ ननु, संन्यासिविद्यागुरोरलाभे का गतिरिति चेत्, सर्वमतसिद्धसंन्यासिगुर्वेकलभ्यत्वकस्य महावाक्योपदेशस्य या गतिः सैवेत्यवेहि । यदि महावाक्योपदेष्टापि गृहस्थः स्यात्तर्हि तुरीयाश्रमो वन्ध्यासूनुतां विन्देत् । न च यतिधर्मप्रबोधवाक्याद्गृहस्थस्यापि गुरुत्वं सम्भवतीति वाच्यम्; पूर्वोक्तमुण्डकोपनिषद्विवरणविरोधादश्रद्धेयत्वात् । यदि तच्छ्रद्धेयत्वेऽप्याग्रहस्तदा-- ``विना विप्रेण कर्तव्यं श्राद्धं कुशचटेन वै । आत्मानं वापि भुञ्जीत न विप्रं वेदवर्जितम् ॥'' इत्यादिवाक्यस्य, यथा श्राद्धे वेदविद्विप्रनिमन्त्रणावश्यकत्व एव तात्पर्यम्; न तु कुशचटेनात्मना वा कुर्यादित्यत्र; तथा यतिधर्मप्रबोधवाक्यस्यापि गृहिणो ब्रह्मविद्यागुरुत्वे न तात्पर्यम् । परं तु ब्रह्मविद्याग्रहणावश्यकत्वप्रदर्शने तात्पर्यमित्यङ्गीकृत्य तच्छ्रद्धेयत्वमुपपादनीयम् । क्षत्रियकर्तृकब्राह्मणकर्मक- वैश्वानरविद्याध्यापनबोधिकायाः क्षत्रियस्य तद्विद्यामात्राध्यापकत्वपरतया ब्रह्मविद्यादौर्लभ्यपरतया युगान्तपरतया वा नेतुं शक्यायाः, छान्दोग्य- श्रुतेर्बलात्, वर्णविनिमयेनेव आश्रमविनिमयेनापि गुरुत्वसम्भावनाधीना गृहिणोऽपि ब्रह्मविद्यागुरुत्वप्रत्याशा, मनुष्यत्वमात्रसाम्यादतिदीनस्य महासाम्राज्यप्रत्याशातुल्यतां कथं न प्राप्नुयात् । किञ्च, मुण्डकोपनिष- च्छिष्यगुरुलक्षणप्रदर्शनपूर्वकं श्रीमच्छुद्धाद्वैतत्रह्मबिद्याधिगमप्रकारप्रदर्शनार्थं प्रवृत्ता । तस्याम् ``परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात्'' इति, ``तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्'' इति, ``येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्'' इति च श्रूयमाणत्वात् । अतोऽनधिगतार्थबोधकत्वरूपप्राबल्यवत्पूर्वोक्त- श्रुत्यनुसारणैब केवलविद्याबोधकच्छान्दोग्यादिश्रुतयो नेयाः । इत्थं च गौतमस्मृतिसूतसंहितादिवचनानां पूर्वोक्तश्रुत्यनुसारेण नेयत्वं कैमुतिकन्यायसिद्धम् ॥ यत्तु, हीनवर्णस्यापि ब्रह्मविद्यागुरुत्वप्रत्यायनेच्छया शुकोपाख्यानोदाहरणम्, तदुपहासास्पदमेव । तत्र पितृसकाशाच्छ्रुतोपनिषत्कस्यैव शुकस्य पित्रनुज्ञातस्य संवादार्थं जनकसमीपगमनस्य प्रतिपादितत्वात् । न च प्राचीनशालसत्ययज्ञादीनां विद्याप्रदः केकयराजः संन्यास्येवेति वाच्यम् । ``मुखजानामयं धर्मो वैष्णवं लिङ्गधारणम् । बाहुजातोरुजातानां नैव धर्मो हि विद्यते ॥'' इति क्षत्रियस्य संन्यासनिषेधात् । यदि च क्षत्रियस्यापि संन्यासित्वबोधिका काचिच्छ्रुतिः स्मृतिर्वोपलभ्येत, तदा सिद्धं नः समीहितम् । यतो न वयं क्षत्रियत्वादिकमुद्देश्यतावच्छेदकीकृत्य ब्रह्मविद्यागुरुत्वाभावं साधयामः, किं तु संन्यासित्वापरनामब्रह्मनिष्ठत्वाभावमुद्देश्यतावच्छेदकीकृत्य । यदि केकयराजः संन्यासी स्यात्तदा किं नश्छिन्नम् । वर्णविनिमयस्तु नास्माकमेव दोषः ॥ किञ्च, सूतसंहितायां हीनवर्णस्य उत्तमवर्णगुरुत्वकथनप्रकरणे ``गुरुत्वं केचिदिच्छन्ति स्वोत्तमं प्रति केशव'' इत्यत्र श्रूयमाणं केचित्पदं दीनवर्णस्य उत्तमवर्णगुरुत्वविषये सूतसंहिताया न मुख्यं तात्पर्यमिति द्योतयति ॥ यदि कश्चिद्ब्रूयात्-- हीनवर्णस्य उत्तमवर्णगुरुत्वाभावेऽपि हीनाश्रमिणोऽपि विद्योत्कर्षबलेन उत्तमाश्रमिगुरुत्वप्रतिपादकसूतसहितावचनबलात् , हीनाश्रमिणः उत्तमाश्रमिगुरुत्वं निष्प्रत्यूहमेवेति; स चेत्थं प्रष्टव्यः- किं त्वदभिमतः हीनाश्रमिणः उत्तमाश्रमिगुरुत्वप्रयोजकीभूतविद्योत्कर्षः, मुण्डकोपनिषद्विवरणे श्रीमद्भगवत्पादव्याख्यातब्रह्मनिष्ठत्वापरनामा, आहोस्विद्वाग्वैखर्यादिरूपः? हीनाश्रमिणः पूर्वोक्ताद्यविद्योत्कर्षाङ्गीकारे हीनाश्रमिणो हीनाश्रमित्वमेव गगनकुसुमायितं भवेत् । द्वितीयस्य तूत्कर्षस्य व्रह्मविद्यागुरुत्वाप्रयोजकत्वम् - वाग्वैखरी शब्दसरी शास्त्रव्याख्यानकौशलम् । वैदुष्यं विदुषां तद्वद्भुक्तये न तु मुक्तये ॥ अतः प्रयत्नाज्ज्ञातव्यं तत्त्वज्ञात्तत्त्वमात्मनः ॥ इत्यादि वदद्भिः श्रीमद्भगवत्पादैरेव प्रकटीकृतमिति हीनाश्रमिणः उत्तमाश्रमिगुरुत्वसिद्धौ, वत्स तव का वा प्रत्याशेति ॥ इदं त्ववधेयम्-- इतराश्रमिणां मोचकब्रह्मविद्यायामधिकार एव नास्ति । ``त्रयः पुण्या लोकभाजः, एकोऽमृतत्वभाक्, ब्रह्मसंस्थोऽमृतत्वमेति'' इति श्रुतेः । ``त्यक्ताशेषक्रियस्यैव संसारं प्रजिहासतः । जिज्ञासोरेव चैकात्म्यं त्रय्यन्तेष्वधिकारिता ॥'' इति वार्तिकाच्च । परं तु, स्वस्वकर्माविरोधेन कृतः केवलब्रह्मविद्याभ्यासस्तेषां पापक्षयाय भवतीति । ``स्वयं तरितुमक्षमः किमपरानसौ तारयेत्'' इति न्यायेन इतराश्रमिणां ब्रह्मविद्यागुरुत्वं शशविषाणतुल्यम् । एतद्विस्तरस्तु श्रीमद्भगवत्पादविरचितैतरेयोपनिषद्विवरणादिभागे विद्वद्भिरनुसन्धेयः; तस्माद्रह्मनिष्ठस्यैव ब्रह्मविद्यागुरुत्वमिति सिद्धम् । एवं च सति केषाञ्चित् गृहिणोऽपि ब्रह्मविद्यागुरुत्वस्य शास्त्रीयात्मभ्रममूलको वैश्वानरविद्यादृष्टविनिमयसाम्यमात्रेण संन्यासिनिरूपितगुरुत्वभ्रमः, तदधीनो यो ग्रहिकर्मकसंन्यासिकर्तृकवन्दनस्य शास्त्रीयत्वादिविचारः, स कथं जन्मवन्ध्यायाः प्रपौत्रपोषणविचारसदृशतां न व्रजतीति सुधियो विदाङ्कुर्वन्त्वित्यलमप्रस्तुतचिन्तया । अतो विविदिषुः परमहंसो मैत्र्यादि- गुणगणमण्डितं ब्रह्मनिष्ठं गुरुमासाद्य तन्निकटे कृतश्रवणमननः पश्चात्तद्दत्तयुक्त्या चिरकृतनिदिध्यासनः ततः सञ्जातब्रह्मसाक्षात्कारः सुखं विहरेदिति सर्वमवदातम् ॥ मन्मानसगतिचतुरः चिदचित्क्षीराम्बुभेदकृतिदक्षः । नरसिंहनामलसितः कृत्या प्रीतिं प्रयातु परहंसः ॥ २॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह भारतीस्वामिभिः विरचिता श्रीशुद्धाद्वैतब्रह्मविद्याधिगमप्रकारमीमांसा सम्पूर्णा । Proofread by PSA Easwaran
% Text title            : shuddhAdvaitabrahmavidyAdhigamaprakAramImAMsA
% File name             : shuddhAdvaitabrahmavidyAdhigamaprakAramImAMsA.itx
% itxtitle              : shuddhAdvaitabrahmavidyAdhigamaprakAramImAMsA (shivAbhinavanRisiMhabhAratIvirachitA)
% engtitle              : shuddhAdvaitabrahmavidyAdhigamaprakAramImAMsA
% Category              : misc, vedanta, sachchidAnanda-shivAbhinava-nRisiMhabhAratI
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Indexextra            : (Scans 1, 2)
% Latest update         : November 9, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org