सर्वलोकेषु रम्यम्
सर्वलोकेषु रम्यं / हि भारतमस्मदीयं, मदीयम् ।
``बुल्बुलाः'' हि नः सर्वे / देशः सूनस्तवकं मदीयम् ॥
पर्वतो हि सर्वोच्चः / विहायसः शिरश्चुम्बी ।
स्वप्रहरिणः सुवीराः / सुसैनिका अस्मदीयाः, मदीयाः ॥
क्रोडे च क्रीडारताः / नद्यः सहस्रधाराः ।
सपुष्टप्राणैः सनीरैः / स्वर्ग्यमिदं मुदितं, मुदितम् ॥
धर्मस्य मे न शिक्षा / वैरिता न विधेया ।
``हिन्दी'' हि वयं / ``हिन्दी'' हि वयं / ``हिन्दी'' हि वयं
च स्वभूमि-भारतमस्मदीयं, मदीयम् ॥
सर्वलोकेषु रम्यं / हि भारतमस्मदीयं, मदीयम् ॥
हिन्दी देशभक्तिपर गीत ``सारे जहाँ से अच्छा''
मूल कवि मोहम्मद इक़्बाल
संस्कृत अनुवाद रञ्जन बेजबरुआ
Sanskrit translation of Hindi patriotic song
sAre jahAMse achChA by Mohammad Iqbal
Sanskrit translation by Ranjan Bezbaruah