रथविश्लेषणम्
लेखकः - नन्दप्रदीप्तकुमारः
श्रीक्षेत्रे रथयात्रा विश्वप्रसिद्धा । बहु पुरातनी रथसंस्कृतिः । अस्माकं भारतवर्षे वैदिककालादारभ्य रथनिर्माणस्य परंपरा वर्तते । पुर्य्यां त्रिषु रथेषु २१८८ काष्ठखण्डानि व्यवह्रियन्ते । तेषु फाशी-धौरा-असन-शाल्मली-देवदारु-पालधुआ-कांस-महानिम्ब-वृक्षाणां प्रमुखभूमिका वर्तते । इमे वृक्षाः नयागड-दशपल्ला वनविभागेन प्रदीयन्ते । वैशाख-शुक्ल-तृतीया अथवा अक्षयतृतीया-दिवसात् प्रतिवर्षं नवीन-रथनिर्माणस्य शुभारम्भो जायते । शिल्पशास्त्र-मानसार-अपराजितपृच्छा-शुल्वसूत्र-मयमत-विशकर्मप्रकाश- शिल्पसारसंग्रहादिषु ग्रन्थेषु रथनिर्माणस्य वर्णनं लभ्यते । शिल्पशास्त्रानुसारं नन्दिघोषादिरथानां निर्माणं भवति । देवी चर्च्चिका रथनिर्माणस्य इष्टदेवी । श्रीनहर (राजगृहस्य) सम्मुखे इयं देवी विराजमाना । तत्र रथखलां (रथनिर्माणस्थानम्) निर्माय रथनिर्माणकार्यं जायते । रथनिर्माणे ये जनाः नियुक्ता भवन्ति तेषु विश्वकर्म(वर्धकी)-कर्मकार-रूपकार-चित्रकार-सूचीकार-भोइसेवकाः प्रमुखाः । ते निर्मातारः पारंपरिक-हस्त-अगुलि-मानेन रथनिर्माणं कुर्वन्ति ॥
१ - नन्दिघोषः
नन्दिघोषः श्रीजगन्नाथस्य स्यन्दनम् । अस्य नन्दिघोषस्य गरुडध्वज-चक्रध्वज- कपिध्वजभेदेन नामानि प्रसिद्धानि । अयं रथः इन्द्रप्रदत्तः । रथरत्नं स्पटिकम् । विश्वकर्मा अस्य निर्माता । ३३ हस्त ५अंगुल =४४फुट ३ इञ्च उच्च-परिमिते अस्मिन् रथे ८३२ संख्यकानि काष्ठानि व्यवह्रियन्ते । अस्य षोडशसिद्धि-परिमितानि १६ चक्राणि,१६ अराश्च भवन्ति । प्रतिचक्रस्य व्यासः ७ फिट् । दैर्घ्य-प्रस्थौ ३५ फुट् । रथपीठस्य क्षेत्रफलः १२२५ फुट् । भूमेः दधिनौति-उच्चता २४ फुट् । पीतलोहितो रथावरणः । हिरण्यगर्भः दधिनौतिः । तत्र जीव-परमौ शुकपक्षियुगलौ । दारुकः रथ-सारथिः । चत्वारो घोटकाः शंख-श्वेत-बलाहक-हरिदश्वाः शुभ्राः । रथरज्जुः शंखचूडः । नभ-व्योम-आकाशानि त्रयः कलशाः । कलशोपरि शून्यचक्रस्य नाम सुदर्शनम् । पताका त्रैलोक्य मोहिनी । ध्वजचिह्नं हनुमान् । शंख-चक्रे रथायुधे । षोडशदलाकृतिः भद्रपीठः । चन्द्रातपनाम कनकमुण्डी । सम्मुखद्वारस्य चित्रं कल्पवृक्षस्य द्वे पत्रे । उत्सवमूर्त्ती वासुदेव-मदनमोहनौ । जय-विजयौ द्वारपालौ । कुमुद-कुमुदाक्षौ प्रतिहारौ । रथरक्षकौ इन्द्र-गरुडौ । भैरव-नरसिंह-गरुड-वासुदेवाः रथपालाः । रथाधिपो वैनतेयः । रथदेवता नृसिंहः । शीर्षदेवता कल्याणसुन्दरः । चरदेवौ वराह-नृसिंहौ । सम्मुख पार्श्वदेवताः ब्रह्मेन्द्र-सप्तर्षयः । पृष्ठभागदेवताः नृसिंह-राम-नारायणाः । वामभागदेवताः त्रिविक्रम-हनुमत्-रुद्राः । दक्षिणे वराह-कृष्ण-गोपीनाथाः । रथदेवी योगमाया । रथभैरव एकपात् । रथशक्ती विमला -विरजे । रथयक्षः हर्याक्षः । रथगन्धर्वः वैधृतिः । रथ-सम्मुखे फुलमोची उर्वशी, पृष्ठे कनकमञ्जरी काममञ्जरी, वामे प्रेममञ्जरी चम्पकमञ्जरी, दक्षिणे अनंगमञ्जरी भ्रमरमञ्जरी चेमाः सर्वाः रथासीना अप्सरसस्तथा नारद-देवल-व्यास-शुक-पराशर-वशिष्ठ-विश्वामित्र-रुद्राः ऋषयश्च नन्दिघोषे विलसन्ति ॥
२ - तालध्वजः
तालध्वजरथस्य नायकः देवाधिदेवो बलदेवः । अस्य लांगलध्वज इति नामान्तरमस्ति । रथरत्नं मर्कतम् । मयदानवः अस्य निर्माता । ३२ हस्त १०अंगुल अथवा ३९ फुट् ४ इञ्च उच्चमान-विशिष्टेऽस्मिन् रथे ७६३ काष्ठखण्डानि व्यवह्रियन्ते । चतुर्दशभुवनसंज्ञकानि अस्य १४ चक्राणि,१४ अराश्च सन्ति । चक्रव्यासः ६ फुट् । रथपीठो मेरुकैलाश-संज्ञकः ३४ फुट् दैर्घ्य-प्रस्थविशिष्टः अष्टदलपद्माकारश्च । क्षेत्रफलः ११५६ फुट् । रथावरणः नीललोहितः । दधिनौतेर्नाम भुवनकोषः । अस्मिन् सुपर्ण-द्वासुपर्णौ शुकपक्षियुगलौ । चन्द्र-सूर्य-विद्युतः कलशत्रयः । कलशोपरि शून्यचक्रं कालसंहारः । पताका ऊन्मनी । ध्वजे तालचिह्नम् । रथरक्षकाः वासुदेव-भास्कर-रुद्राः । हल-मुसलौ रथायुधे । तीव्र-घोर-दीर्घश्रम-स्वर्णनाभाः चत्वारो घोटकाः कृष्णवर्णाः । रथरज्जुर्वासुकिः । ब्रह्म-शिवौ रथशक्ती । चन्द्रातपः कनकमेखलः । सम्मुखद्वारचित्रं पञ्चपत्रविशिष्टं तालपत्रम् । राम-कृष्ण-गोपालाः उत्सवमूर्त्तयः । सुशील-अतिशीलौ प्रतिहारौ । रथपालः आदिशेषः । रथाधिपः बृहन्न्यासः । शीर्षदेवता अनन्तनागः । चरदेवौ ब्रह्म-शिवौ । गणेश-कार्त्तिकेय-मृत्युञ्जय-सर्वमंगला-प्रलम्बारि-हलायुध-नाटाम्बर-मुक्तेश्वर-शेषदेवाः नवपार्श्वदेवताः । रथदेवी केतुभद्रा । भैरवः क्षेत्रपालः । रथशक्ती जयदुर्गा शूलिनी दुर्गा च । रथयक्षः प्रचण्डः । जया- विजया-चण्डी-चण्डरूपा- नन्दा-आनन्दा-सनन्दा-तिलोत्तमाः अष्टौ अप्सरसः । अंगिरा-पुलह-पुलस्त-कृष्ण-मुद्गल-आत्रेय-काश्यप-आसष्टयः अष्टौ ऋषयः तालध्वजे निवसन्ति ॥
३ - देवदलनः
देवदलनस्य नायिका देवी सुभद्रा । अस्य रथस्य दर्पदलन इति नामान्तरमस्ति । रथरत्नं माणिक्यम् । कालनेमी अस्य निर्माता । ३१ हस्त वा३७ फुट् ६ इञ्च अस्य उच्चता । ५९३ काष्ठखण्डानि अस्मिन् रथे व्यवहृतानि । अस्य राशिस्वरूपाणि १२ चक्राणि, १२ अराश्च सन्ति । चक्रव्यासः ५ फुट् । रथपीठः काम्पिल्यः ३३ फुट् दैर्घ्य-प्रस्थविशिष्टः सहस्रदलपद्माकारः । क्षेत्रफलः १०८९ फुट् । रथावरणः कृष्णलोहितः । हिरण्मयी दधिनौतिः । अत्र श्रुति-स्मृती शुकपक्षियुगलौ । परा-अपरा-वैखर्यः त्रयःकलशाः । दीप्तनामा शून्यचक्रम् । नादाम्बिका वैजयन्ती । शुभ्रपद्मं ध्वजसंकेतः । रथायुधौ पद्म-कल्हारौ । वीरघण्टः चन्द्रातपः । सम्मुखद्वारे पञ्चलताकार-चित्रम् । रथाधिश्वरौ सुभद्रा-सुदर्शनौ । उत्सवमूर्तिः जयदुर्गा । गंगा-यमुने द्वारपाले । सारथिः अर्जुनः । रोचिका-मोचिका-जिता-अपराजिताः चतस्र अश्वाः रक्तवर्णाः । स्वर्णचूडः रथरज्जुः । विमला-दुर्गा-वाराही-चामुण्डा-भुवनेश्वरी-हरचण्डी-जयदुर्गा-सर्वमंगला-उग्रताराः नव-पार्श्वदेव्यः रथस्य । भृगु-सुप्रभ-वज्र-शृंगि-ध्रुवाः रथ-ऋषयः । मनोरमा-तिलोत्तमे प्रतिहारे । रथरक्षके उग्रचण्डा-चन्द्रघण्टे । रथपालो हरिहरः । रथाधिपा वनदुर्गा । रथदेवता महामंगला । रथदेवी चन्द्रघण्टा । भैरवो घण्टाकर्णः । यक्षः किंज्वल्किकः । गन्धर्वः हा हा । एताः देवताः देवदलने विराजन्ते तराम् । अलं पल्लवितेन । जय जगन्नाथ ॥
- नन्दप्रदीप्तकुमारः
Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com