पुरुषार्थनिर्णयः

पुरुषार्थनिर्णयः

पुरुषार्थदानदक्षं पुरुहूतप्रमुखनिर्जराराध्यम् । पुरुषार्थसिद्धयेऽहं पुरुषं कृष्णाद्यपिङ्गलं नौमि ॥ १॥ तत्र तावत्कः पुरुषार्थो नाम? न तावदनुकूलपुत्रमित्रकलत्रादिः; तदनित्यत्वस्य प्रत्यक्षसिद्धत्वात् । न च ``एतत्त्रयं जगति पुण्यकृतो लभन्ते'' इति तस्यापि सुकृतसाध्यत्वेन नित्यत्वमिति शङ्क्यं; न हि जलजन्यत्वसाम्येऽपि बुद्बुदतरङ्गफेनवारिजानां स्थिरत्वसाम्यमस्ति; तस्माद्धर्मार्ध- काममोक्षाश्चत्वारः पुरुषार्थाः । तत्र धर्मो नाम--आशुविनाशिनां विहितकर्मणां कालान्तरभाविफलजनकत्वान्यथानुपपत्त्या कल्प्यमानोऽदृष्टपदार्थविशेषः । तथा हि--यागगङ्गास्नानशिवपूजादीनां हविःप्रक्षेपण- गङ्गाजलमज्जनशिवलिङ्गादिषु पुष्पक्षीरादिसमर्पणादिरूपाणां यावत्कार्योत्पादास्थायित्वस्य सार्वलौकिकत्वात्तत्कल्पने तु फलाव्यवहितप्राक्क्षणवृत्तिस्वस्वव्यापारान्यतरकत्वरूपफल- जनकत्वस्य कालान्तरकृतकर्मणामपि सूपपादकत्वात् । अर्थो नाम-पूर्वोक्तधर्मानुकूलयागादिसाधनीभूतधनधान्यादिः । कामस्तु-उक्तधर्मजनककर्मसु प्रवर्तकः ``धर्मो मे भूयात्'' इतीच्छारूपः । न तु निषिद्धकर्मकारकः कामः, तस्य पुरुषार्थभावात्प्रत्युत पुरुषदुःखहेतुत्वात् । किञ्च, भगवद्गीतायां भगवानप्येवमाह-- ``धर्म्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ'' इति । मोक्षस्तु--तत्त्वज्ञानैकसाध्यः । तत्स्वरूपमुन्तरत्र वर्ण्यते ॥ अत्रेदं चिन्त्यते--चतुर्ष्वप्येतेषु कः परम इति । न च पुरुषार्थत्वाविशेषाच्चत्वारोऽपीमे समाना एवेति निश्चेतुं शक्याः । न हि मनुष्यत्वाविशेषेऽपि सर्वेऽपि मनुष्याः समाना उपलभ्यन्ते; कश्चित्प्रभुः, कश्चिद्भृत्यः, कश्चित्सुखी, कश्चिदुःखीति भेददर्शनात् । तस्मात्प्राप्तं पुरुषार्थत्वाविशेषेऽपि चिन्त्यमेतेषु पारम्यमिति । न चार्थकामौ परमौ, तयोर्धर्महेतुत्वेन धर्म एवोपक्षीणतया स्वतः पुरुषार्थत्वाभावात् । अत एव न धर्मोऽपि परमः पुमर्थः; तस्य स्वर्गादिसाधनत्वेनोपसर्जनत्वात् । तथा हि श्रुतिः -- ``ज्योतिष्टोमेन स्वर्गकामो यजेत'' ``वायव्यश्वेतमालभेत भूतिकामः'' इति स्वर्गादिसाधनत्वमाह धर्मस्य । न चेयं श्रुतिर्न ``धर्मस्य स्वर्गकारणत्वमाह,'' अपि तु ज्योतिष्टोमादेरिति वाच्यम् । यागादेर्धर्मव्यापारकत्वस्यावश्यकल्प्यतया धर्मस्य स्वर्गकारणताया धर्मिग्राहकमानसिद्धत्वात् । न चैतेषां त्रयाणां पुरुषार्थत्वमपि सम्भवति । तथा हि-- पुरुषार्थो नाम--वस्तुतः सुखम्, दुःखाभावो वा । तथा च लोकेऽनुभवः-- ``इष्टं मे भूयादनिष्टं मे मा भूत्'' इति । न चेमे त्रयः सुखं दुःखाभावो वा । तर्हि, कथमेतेषां पुरुषार्थकोटिप्रविष्टत्वमिति चेत्, तत्साधनत्वादिति ब्रूमः । यथा लाङ्गलस्य जीवनत्वाभावेऽपि जीवनसाधनत्वेन ``लाङ्गलं जीवनम्'' इति प्रयोगः, तद्वत्पुरुषार्थसाधनत्वेनैतेषु पुरुषार्थपदप्रयोगः । किञ्चैतेषामनित्यत्वादपि न परमपुरुषार्थत्वम् । तथा हि-अर्थकामयोस्तावत्प्रत्यक्षेणैवानित्यत्वम् । धर्मस्य त्वतीन्द्रियत्वेन श्रुत्या स्मृत्या चावगम्यते । तथा च श्रुतिः-- ``यद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते'' इति । स्मृतिश्च- ``क्षीणे पुण्ये मर्त्यलोकं विशन्ति'' इति । तर्हि कः परमपुरुषार्थ इति चेन्मोक्ष एवेत्यवेहि । तथा हि-- तस्य ``ब्रह्मविदाप्नोति परम्'' इत्यादिश्रुत्या सुखस्वरूपत्वस्य, ``तरति शोकमात्मवित्'' इत्याद्यया च दुःखनिवृत्तिरूपत्वस्य च प्रतिपादनात्स्वतः पुमर्थत्वम्, नित्यत्वं च ``न स पुनरावर्तते'' ``तेषां न पुनरावृत्तिः'' ``एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते'' इत्यादिश्रुतिभ्यः ॥ ``आब्रह्मभुवनाल्लोकाः पुनारावर्तिनोऽर्जुन ।'' ``मामुपेत्य पुनजन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥'' ``इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥'' ``यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ।'' इत्यादिस्मृतिभ्यश्च । किञ्च, अनित्यविलक्षणत्वादपि नित्यत्वम् । लोक उत्पाद्यप्राप्यसंस्कार्यविकार्याणामनित्यत्वं दृष्टम् । न चासौ मोक्ष उत्पाद्यः; नित्यो हि मोक्षः सर्वैर्मोक्षवादिभिरभ्युपगम्यते । नापि प्राप्यः, आत्मस्वरूपत्वेन नित्याप्तत्वात् । नापि संस्कार्यः, नित्यशुद्धनिरतिशयत्वान्मोक्षस्य । नापि विकार्यः, कूटस्थब्रह्मस्वरूपत्वान्मोक्षस्य । तस्मान्नित्यत्वात्स्वतः पुमर्थत्वाच्च मोक्ष एव परमपुरुषार्थः । न च ``अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतम्'' ``अपाम सोमममृता अभूम'' इत्यादिश्रुतिभिः कर्मफलस्यापि नित्यत्वप्रतिपादनात्कथं मोक्षस्यैव नित्यफलत्वमिति वाच्यम्; अस्याः श्रुतेः ``यत्कृतकं तदनित्यम्'' इति न्यायोपेतया ``तद्यथेह'' इत्यादिश्रुत्या बाधेन अत्रत्याक्षय्यामृतपदयोः आभूतसम्प्लवस्थायिस्थानपरत्वस्यैव वक्तव्यत्वात् । तथा च स्मृतिः--- ``आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते'' । इति । इत्थं हि व्यवस्था-श्रुतिस्मृत्योर्विरोधे ॥ंउसारेण स्मृतिर्नेया, श्रुत्योः परस्परं विरोधे न्यायोपेतश्रुत्यनुसारेण श्रुत्यन्तरं नेयमिति । तस्मान्मोक्ष एव नित्य इति सिद्धम् ॥ , मोक्षो नाम-सालोक्यसामीप्यसारूप्यसायुज्यकैवल्यभेदेन पञ्चविधः । ``तत्र सालोकव्यं तत्तदुपास्यदेवतावासस्थानभूतलोकप्राप्तिः । सामीप्यमुपास्यदेवतासमीपवर्तनम् । सारूप्यं देवतासमानाकारदेहप्राप्तिः । सायुज्यं सगुणस्य देवतारूपस्य अहङ्ग्रहेणोपासनां कुर्वतः उपास्य- देवतातादात्म्यम् । कैवल्यं तु सच्चिदानन्दनित्यशुद्धबुद्धमुक्तस्वभाव- प्रत्यगभिन्नकूटस्थनह्मस्वरूपेणावस्थानम् । इदमेवाविद्यानिवृत्तिपदेना- प्यभिधीयते । तथा चोक्तम्- ``अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः । '' इति । ``निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः ।'' इति च । अपि च, ``तस्मादविद्यास्तमयो नित्यानन्दप्रतीतितः । निःशेषदुःखोऽभेदाच्च पुरुषार्थः परो मतः ॥'' इति । इयं कैवल्यरूपा मुक्तिरेव मुख्या । तथा च सूतसंहितायां स्वस्वरूपावस्थानमुक्तिं प्रकृत्य-- ``षड्भावविक्रियाहीना शुभाशुभविवर्जिता । सर्वद्वन्द्वविनिर्मुक्ता सत्यविज्ञानरूपिणी ॥ केवलं ब्रह्मरूपोक्ता सर्वदा सुखलक्षणा । न हेया नाप्युपादेया सर्वसम्बन्धवर्जिता ॥ न दृष्टा न श्रुता विष्णो न चास्वाद्या न तर्किता सर्वावरणनिर्मुक्ता न विज्ञेया निराश्रया ॥ वाच्यवाचकनिर्मुक्ता लक्ष्यलक्षणवर्जिता । सर्वेषां प्राणिनां साक्षादात्मभूता स्वयम्प्रभा ॥ प्रतिबन्धविनिर्मुक्ता सर्वदा परमार्थतः । अविचारदशायां तु प्रतिबद्धा स्वमायया ॥ एषैव परमा मुक्तिः प्रोक्ता वेदार्थवेदिभिः । अन्याश्च मुक्तयः सर्वा अपराः परिकीर्तिताः ॥ '' इति । न चान्यासु सालोक्यादिरूपासु कथं मुक्तिशब्दप्रयोग इति वाच्यम्; ताः प्राप्तानां पुनरावृत्त्यभावेन क्रमेण मुख्यमुक्तिदर्शनात्तासु मुक्तिशब्दोपचारः । तथा चोक्तम्-- ``ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यां ते महात्मानः प्रविशन्ति परं पदम् ॥'' इति । न चास्याः कूटस्थब्रह्मस्वरूपाया मुक्तेः स्वतःसिद्धतया तदर्थं मुमुक्षूणां गुरूपसदनविचारादिषु प्रवृत्तिर्न स्यादिति वाच्यम्; तस्याः स्वतःसिद्धत्वेऽपि विस्मृतकण्ठचामीकरन्यायेनाज्ञातत्वेन तत्प्राप्त्यै मुमुक्षूणां विचारादिषु प्रवृत्युपपत्तेः । विस्मृतकण्ठचामीकरन्यायस्त्वेवं-कश्चित्पुरुषः स्वकण्ठस्थमेव चामीकरं विस्मृत्य ``अहो मदीयश्चामीकरः कुत्र वा स्थापितः केन वापहृतः'' इतीतस्ततः पर्यटन्कुत्राप्यलब्ध्वा बहुधा शोचंस्तिष्ठति । अत्रान्तरे कश्चनागत्य चूते- ``तावके कण्ठ एव खलु चामीकरो वर्तते, किमर्थं भवान् महान्तं शोकमापन्नः'' इति । स तद्वाक्यश्रवणानन्तरं यथा स्वकण्ठस्थमेव चामीकरं ज्ञात्वा अलब्धस्य लाभादिव तुष्यतीति । अनेन न्यायेन स्वतऽसिद्धापीयं मुख्या मुक्तिरात्मस्वरूपा अज्ञातत्वेन अलब्धेव सती स्वलाभाय कारणमपेक्षत एवेति युक्ता तदर्थं मुमुक्षूणां प्रवृत्तिः । कारणं तु ज्ञानमेव; ``नान्यः पन्था विद्यतेऽयनाय'' ``तरति शोकमात्मवित्'' । ``नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्'' ब्रह्मविदाप्नोति परम् ``ब्रह्मविद्ब्रह्मैव भवति'' ``स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति'' इत्यादिश्रुतिभ्यः ॥ ``बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।'' ``ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥'' इत्यादिस्मृतिभ्यश्च । तज्ज्ञानं कीदृशमित्यपेक्षायां अपरोक्षानुभूतौ श्रीमद्भगवत्पादैः-- ``ब्रह्मैवाहं समः शान्तः सच्चिदानन्दलक्षणः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ निर्विकारो निराकारो निरवद्योऽहमव्ययः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ निरामयो निराभासो निर्विकल्पोऽहमाततः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ निर्गुणो निष्क्रियो नित्यो नित्यमुक्तोऽहमच्युतः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ निर्मलो निश्चलोऽनन्तः शुद्धोऽहमजरोऽमरः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ '' इति । ``तत्त्वमसि'' ``अहं ब्रह्मास्मि'' ``अयमात्मा ब्रह्म'' ``प्रज्ञानं ब्रह्म'' इति महावाक्यजन्याखण्डाकारवृत्त्यपरनामकम् । तत्प्राप्त्युपायस्तु श्रुतौ ``आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः'' इति, ``शान्तो दान्त उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वाऽऽत्मन्येवात्मानं पश्येत्'' इत्यादिवाक्यैरुद्घुष्यते । पाद्मे शिवगीतायां च-- ``कथं भगवतो ज्ञानं शुद्धं मर्त्यस्य जायते । तत्रोपायं हर ब्रूहि मयि तेऽनुग्रहो यदि ॥'' इति श्रीरामेण पृष्टः सन् श्रीभगवानाह-- ``विरज्य सर्वभूतेभ्य आविरिञ्चिपदावधि । घृणां वितत्य सर्वत्र पुत्रमित्रादिकेष्वपि ॥ श्रद्धालुर्मुक्तिशास्त्रेषु वेदान्तज्ञानलिप्सया । उपायनकरो भूत्वा गुरुं ब्रह्मविदं व्रजेत् ॥ सेवाभिः परितोष्यैनं चिरकालं समाहितः । सर्ववेदान्तवाक्यार्थं श‍ृणुयात्सुसमाहितः ॥ सर्ववेदान्तवाक्यानां मयि तात्पर्यनिश्चयम् । श्रवणं नाम तत्प्राहुः सर्वे ते ब्रह्मवादिनः ॥ लोहमण्यादिदृष्टान्तयुक्तिभिर्यद्विचिन्तनम् । तदेव मननं प्राहुर्वाक्यार्थस्योपबृंहणम् ॥ निर्मोहो निरहङ्कारः समः सङ्गविवर्जितः । सदा शान्त्यादियुक्तः सन्नात्मन्यात्मानमीक्षते ॥ यत्सदा ध्यानयोगेन तन्निदिध्यासनं स्मृतम् । सर्वकर्मक्षयवशात्साक्षात्कारोऽपि चात्मनः ॥ कस्यचिज्जायते शीघ्रं चिरकालेन कस्यचित् ।'' इति । तस्माद्ब्रह्मज्ञानैकसाध्यः स्वस्वरूपावस्थानलक्षणो मोक्ष एव परमः पुरुषार्थ इति सर्वं चतुरश्रम् ॥ पुरुषार्थनिर्णयोऽयं गुरुवरकृपया मया व्यरचि । वीक्ष्य प्रयान्तु मोदं विद्वांसो वीतमत्सरास्तमिमम् ॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः पुरुषार्थनिर्णयः समाप्तः । Proofread by PSA Easwaran
% Text title            : puruShArthanirNayaH
% File name             : puruShArthanirNayaH.itx
% itxtitle              : puruShArthanirNayaH (shivAbhinavanRisiMhabhAratIvirachitaH)
% engtitle              : puruShArthanirNayaH
% Category              : misc, sachchidAnanda-shivAbhinava-nRisiMhabhAratI
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (Scans 1, 2)
% Latest update         : November 9, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org