फ्रान्सिस् बेकनदर्शनम्

फ्रान्सिस् बेकनदर्शनम्

लेखकः - नन्दप्रदीप्तकुमारः देशः कालः परिचयश्च- नाट्यकारः सेक्सपियरसमसामयिकः फ्रान्सिस् बेकनः महान् दार्शनिक एव । इंलण्डदेशीय अयं महात्मा १५६१तमे ख्रीष्टाब्दे स्वास्तित्वसंपन्न आसीत् । जानुयारिमासस्य द्वाविंशतितमे दिनांके इंलण्डप्रदेशस्य लण्डन भूमण्डले इयर्कहाउस York house इत्यत्र कुलिने परिवारे सोस्जायत । निकोलास् बेकन् नामकस्तस्य पिता तदानीं महाराज्ञाः एलिजाबेथ् इत्यस्या महाशयायाः सम्पत्तिरक्षक आसीत् । माता लेडीआन्नेकुक् विशिष्टा एका साहित्यिका या लाटिन-ग्रीक् साहित्ययोः निष्णाता आसीत् । द्वादशवयसि बेकन् केम्ब्रिज् विश्वविद्यालयस्य ट्रिनिटि महाविद्यालयं गत्वा वर्षत्रयं यावत् विद्यार्जनं कृतवान् । विश्वविद्यालय-पठनसमये तन्मनसि ज्ञानानुरागः संपन्नः । तदानीं आरिस्टटलमहोदयस्य दर्शनस्य व्यापकता विश्वविद्यालये आसीत् । बेकन् तन्मतं नादृतम् । फलतः तेन विश्वविद्यालयः त्यक्तः । अष्टादशवयसि तस्य पितृवियोगो जातः । जीविकानिर्वाहार्थं नीतिशास्त्रं प्रपठ्य अधिवक्ता रूपेण आत्मानं स्थापयामास । द्वाविंशति वयसि पार्लामेण्ट सदस्यत्वेन निर्वाचितः । एटर्नी जेनेराल, लर्डचान्सेलर आदिपद-पदवीषु दक्षता तेन प्रदर्शिता । दर्शनशास्त्रसंस्कारे अन्धसंस्कारवाद प्रतिपादने तस्य निष्ठा सुदूरदर्शी सुदूरप्रसारी एव । १६२६ तमे ख्रीष्टाब्दे इहलीलां समाप्य परमधाम समवाप । बेकन् महोदयः महान् विद्वान् उत्कृष्टसाहित्यिकः कुशलराजनीतिज्ञः अत्यन्त चतुरो धीरसहिष्णुः इन्द्रियानुभववादी प्रयोगविज्ञानवादी तथा दार्शनिकश्च आसीत् । ज्ञानमीमासा (अन्धसंस्कारवादः) प्रत्यक्षागमाभ्यां प्रकृतिपर्य्यवेक्षणपूर्वकं मूलतत्त्वस्य अन्वेषणं बेकनदर्शनस्य प्रधानलक्ष्यम् । तन्मतानुसारं ज्ञानार्जनं तु सर्वदा वैज्ञानिकपद्धत्या कर्त्तव्यम् । एतदर्थं पूर्वप्रचलितानां कुसंस्काराणां सर्वादौ परिहारः कर्त्तव्यः । यथा मलिनदर्पणे मुखस्य प्रतिविम्बो मलिनो दृश्यते तथैव कुसंस्काराच्छने मनसि प्रकृत्याः प्रतिविम्बाभावात् सम्यग्ज्ञानं नोदेति । एवं प्रियजनानां दोषादर्शनं अप्रियजनानां गुणदर्शनं च कुसंस्कारकारणाद् हि जन्यते । अन्धवत् यस्य कस्यापि मतं अग्रहणीयमिति एतादृशसिद्धान्त एव अन्धसंस्कारवादः फलितः । अयं अन्धसंस्कारवादः न केवलं व्यक्तिषु अपितु सामाजिकक्षेत्रे वैज्ञानिकक्षेत्रेपि बहुलतया दरीदृश्यते । समाजस्य चतुर्षु स्थानेषु ते अन्धसंस्काराः परिव्याप्ताः । यथा-१-जातिगतान्धसंस्कारः(Idola Tribes) २-वैयक्तिकान्धसंस्कारः (Idola specus) ३-लोकायतान्धसंस्कारः (Idols of Market place) ४-नाट्यशालागतान्धसंस्कारः (Idols of the thearti) १-जातिगतान्धसंस्कारः- अयं कुसंस्कारः मानवमात्रेषु व्यवह्रियते । सहजसंस्काररूपेणायं दोषो विचार्यते । जातिगत इत्यत्र न ब्राह्मणादिजातीनां कृते अपितु प्रकृतितुल्यजातीयो सजातीयो विजातीयो वा बोध्यः । अत्र प्रकृतिविषयकं निष्पक्षमध्ययनं विना ज्ञानोत्पतिरसम्भवात् । २- वैयक्तिकान्धसंस्कारः-शिक्षाक्षेत्रे अयं दोषो विचार्यते । यदि मानवानां शिक्षा सीमिता भवेत् भाषास्पि सीमिता स्यात् तर्हि इयं समस्या उत्पद्यते । यथा कूपमण्डुकस्य कूपविषयकज्ञानं भवति न समुद्रस्य तथैव स्थिरनिर्दिष्टक्षेत्रे अयं संकीर्णो गुहादोषो व्यक्तिगतान्धसंस्कार इत्युच्यते ।३-लोकायतान्धसंस्कारः- लोकेषु आयतं नाम विस्तृतम् । वस्तुतः भाषागतान्धसंस्कारोस्यं दोषः । कदाचित् भाषाव्यवहारे येषां शब्दानां व्यवहारो दृश्यते तेषां नास्ति कोस्पि विशेषोस्र्थः । किन्तु परंपरात एव व्यवह्रियते । ४- नाट्यशालागतान्धसंस्कारः- यथा कल्पनाप्रसूतं नाटकं भवति तथैव दार्शनिकानां आगम-धर्म-दर्शनेषु वर्णितं संप्रदायसिद्धान्त एव कल्पनाप्रसूतमिति बेकनयुक्तिर्बलीयसी । आगमनात्मकतर्केण हि वस्तुस्वरूपं निश्चीयते नान्यथा । आगमनात्मकविधिः (Inductiv Method) बेकनमहोदयस्य अयं सिद्धान्तः आरोहानुमानपद्धतिर्वा आगमनात्मकतर्कपद्धतिः नाम्ना परिचयं प्राप्तः । तन्नये यथार्थज्ञानं न इन्द्रियानुभवैर्जायते । इन्द्रियवैकल्यात् कदाचित् मिथ्याज्ञानं जायते । सुतरां निरीक्षणपूर्वकं वस्तूनां स्वरूपज्ञानं तु आरोहानुमानपद्धतेः मूललक्ष्यम् । वस्तुस्वरूपं विश्लेषणे यन्त्रादीनामपि प्रयोगः कर्त्तव्यः । साधर्म्य-वैधर्म्याभ्यां वस्तुविचारे हेतुस्वरूपो निर्णेतव्यः । अन्वय-व्यतिरेकाभ्यां हेत्वाभासं निराकृत्य व्याप्तिज्ञानमवश्यमेव कर्त्तव्यम् । बेकनमतेन सत्यस्याभिव्यक्तिः आगमनात्मकपद्धत्या एव सम्भवति । तर्कोस्पि व्याप्तिज्ञानोपरि निर्भरशीलः । बेकनमहोदयस्य अयं सिद्धान्तो न नूतनमिति केचित् वदन्ति । किन्तु पाश्चात्यदर्शनेषु तस्य योगदानं महत्त्वपूर्णमिति नैव सन्देहस्यावकाशः । --- लेखकः - नन्दप्रदीप्तकुमारः श्रीजगन्नाथसंस्कृतविश्वविद्यालयः पुरी Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : About Francis Bacon
% File name             : phrAnsisbekanadarshanam.itx
% itxtitle              : phrAnsisbekanadarshanam (lekhaH parichayo deshakAlashcha)
% engtitle              : phrAnsisbekanadarshanam
% Category              : misc, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Indexextra            : (Info)
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : June 27, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org